नेपाले चैत्र पूर्णिमायां तामांग समुदायः समाचरत् ऐतिहासिकीं ‘तेमालयात्राम्’
काठमांडूः, 01 अप्रैलमासः (हि.स.)। चैत्रपूर्णिमायाः पावनावसरे काठमांडू नगरे बौद्ध क्षेत्रे तामाङ्गसमुदायेन ऐतिहासिकधार्मिकमहत्त्वयुक्ता ‘तेमाल यात्रा’ श्रद्धया सम्यक् आचरिता। एषा यात्रा प्रति वर्षं चैत्रपूर्णिमायां बौद्ध, स्वयम्भू तथा नमोबुद्ध क्ष
काठमांडू के बौद्ध में तामांग समुदाय का टीमल जात्रा


काठमांडूः, 01 अप्रैलमासः (हि.स.)।

चैत्रपूर्णिमायाः पावनावसरे काठमांडू नगरे बौद्ध क्षेत्रे तामाङ्गसमुदायेन ऐतिहासिकधार्मिकमहत्त्वयुक्ता ‘तेमाल यात्रा’ श्रद्धया सम्यक् आचरिता। एषा यात्रा प्रति वर्षं चैत्रपूर्णिमायां बौद्ध, स्वयम्भू तथा नमोबुद्ध क्षेत्रेषु आयोज्यते, या तामाङ्गसमुदायस्य धार्मिकसांस्कृतिकपरिचयस्य प्रतीका अस्ति।

परम्परानुसारम् अस्याः यात्रायाः प्रारम्भः तेमाल क्षेत्रात् अभवत् इति मन्यते। अस्मिन् दिने दिवंगतपरिजनानां आत्मशान्त्यर्थं दीपप्रज्वालनं पूजापाठश्च क्रियते इति प्राचीनपरम्परा वर्तते।

एतस्याः परम्परायाः अनुसारं श्रद्धालवः चैत्रपूर्णिमायां बौद्धक्षेत्रे पूजां कृत्वा अनन्तरं बालाजु बाइसधारा इत्यत्र स्नानार्थं गच्छन्ति, ततः स्वयम्भू क्षेत्रं गत्वा दीपप्रज्वालनं कुर्वन्तः अस्थिविसर्जनं च कुर्वन्ति।

जात्राकाले श्रद्धालुभिः बौद्धस्तूपपरिसरे ‘छ्योमि’ (दीपाः) प्रज्वालिताः, मृतकानां नाम्ना ‘ङो’ पूजा अपि कृता। लामा-गुरूणां नेतृत्वे विशेषा ‘ङोवा मोन्लम’ इति पूजा अपि सम्पन्ना।

श्रद्धा अस्ति यत् एतादृशी पूजा मृतात्मनां शान्तिं ददाति तथा तेषां स्वर्गप्राप्तिं सुनिश्चेतयति। एषा जात्रा चैत्रशुक्लचतुर्दश्याः सायंकालात् आरभ्यते, यस्मिन् मकवानपुर, ललितपुर, नुवाकोट, सिन्धुपाल्चोक काभ्रेपलान्चोक इत्यादिभ्यः विभिन्नप्रदेशेभ्यः तामाङ्गसमुदायस्य जनाः बहुसंख्यया सहभागी भवन्ति।

पूर्णिमायाः प्रातःकाले बालाजुबाइसधारायां स्नानं कृत्वा स्वयम्भूक्षेत्रे पूजां समाप्य अस्याः यात्रायाः समापनं क्रियते इति परम्परा प्रचलिता अस्ति।।

---------------

हिन्दुस्थान समाचार