Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 01 अप्रैलमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामेः उपस्थितौ बुधवासरे मुख्यमन्त्रिणः आवासे ‘वाइब्रेंटविलेजकार्यक्रमस्य’ अन्तर्गतं भारततिब्बतसीमापुलिसबलस्य उत्तराखण्डऔद्यानिकपरिषदः च मध्ये समझौतापत्रे हस्ताक्षराणि कृतानि।
अस्य सहमतेः अन्तर्गतं राज्ये नियुक्तानां भारततिब्बतसीमापुलिसबलस्य वाहिनीनां कृते स्थानीयस्तरे ताजफलशाकादीनां आपूर्तिः सुनिश्चितीक्रियते।
मुख्यमन्त्री एतेषां प्रथम राज्यस्य कृषकाणां स्थानीयोत्पादकानां सीमावर्तीक्षेत्राणां समग्रविकासस्य दिशि महत्त्वपूर्णं पदं इति अवदत्। सः उक्तवान् यत् अनेन एकतः सैनिकेभ्यः गुणवत्तायुक्ता पौष्टिका च खाद्यसामग्री लभ्यते, अपरतः कृषकेभ्यः स्वोत्पन्नस्य उचितमूल्यं प्राप्यते।
मुख्यमन्त्री अवदत् यत् एषा योजना स्थानीयउत्पादनां प्रोत्साहने राज्यसर्वकारस्य संकल्पं सुदृढीकरिष्यति तथा कृषकेभ्यः विपणनार्थं स्थायिमञ्चं प्रदास्यति। अस्य व्यवस्थायाः अन्तर्गतं चमोली उत्तरकाशी पिथौरागढ़ चम्पावत इत्यादिषु सीमावर्ती जिलेषु सह देहरादूननगरे अपि स्थानीयउत्पादनां आपूर्तिः सुनिश्चितीक्रियते।
सः अवदत् यत् एषा सहमतिः सीमावर्तीक्षेत्रेषु कृषकाणां आर्थिकस्थितिं सुदृढां करिष्यति तथा तेषां विपणनमार्गे आगच्छन्त्यः कठिनताः अपि निवारयिष्यति। राज्यसरकारः कृषकहितरक्षणे सैनिककल्याणे च पूर्णतया प्रतिबद्धा अस्ति।
अधिकाऱिणाम् अनुसारं वाइब्रेंटविलेजकार्यक्रमस्य अन्तर्गतं पूर्वमेव राज्यसरकारस्य भारततिब्बतसीमापुलिसबलस्य च मध्ये स्थानीयउत्पादनां क्रयविषये समझौताः कृताः सन्ति, येषां सकारात्मकपरिणामाः दृष्टाः। अद्यपर्यन्तं भारततिब्बतसीमापुलिसबलेन प्रायः १४ कोटि ७७ लक्षरूप्यकाणां मूल्येन स्थानीयउत्पादनां क्रयः कृतः अस्ति। यदि भारततिब्बतसीमापुलिसबलं स्ववार्षिकआवश्यकतायाः २५ प्रतिशतं फलशाकादीनां स्थानीयस्तरे क्रीणाति तर्हि कृषकेभ्यः प्रायः ६ कोटिरूप्यकाणां अतिरिक्तआयः भविष्यति।
अस्मिन् अवसरे कृषिमन्त्री गणेशजोशी, सचिवः कृषि एस एन पाण्डेय, आईजी भारततिब्बतसीमापुलिसबलस्य मनु महाराज, अपरसचिवः आनन्दश्रीवास्तव, निदेशकः उद्यान एस एल सेमवाल, मुख्यकार्यकारीअधिकारी उत्तराखण्डऔद्यानिकपरिषदः नरेन्द्रकुमारयादव इत्यादयः अन्ये च अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार