फार्मर रजिस्ट्रीद्वारा युक्ताः सर्वे कृषकाः, एकीकृत डिजिटल प्रणाल्या लप्स्यते योजनानां लाभः - मुख्यमंत्री योगी आदित्यनाथः
-मुख्यमंत्री अददात् फार्मर रजिस्ट्रीनिमित्तं ग्राम पंचायत स्तरे विशेषेण शिविरमायोजयितुं निर्देशः लखनऊ, 01 अप्रैलमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः प्रदेशे फार्मर रजिस्ट्री इत्यस्य व्यापकप्रयोगाय निर्देशान् दत्त्वा उक्तवान् यत् सर्वेषां क
सरकारी आवास पर कृषि विभाग की बैठक करते मुख्यमंत्री योगी


-मुख्यमंत्री अददात् फार्मर रजिस्ट्रीनिमित्तं ग्राम पंचायत स्तरे विशेषेण शिविरमायोजयितुं निर्देशः

लखनऊ, 01 अप्रैलमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः प्रदेशे फार्मर रजिस्ट्री इत्यस्य व्यापकप्रयोगाय निर्देशान् दत्त्वा उक्तवान् यत् सर्वेषां कृषकाणां पंजीकरणं प्राथमिकतया सुनिश्चितं कर्तव्यम्। सः निर्देशितवान् यत् यथाशीघ्रं प्रत्येकग्रामपञ्चायते विशेषशिविराः आयोज्य कृषकाः फार्मर रजिस्ट्री इत्यनेन संयोज्यन्ताम्, येन कश्चित् अपि पात्रः कृषकः अस्य व्यवस्थायाः वञ्चितः न भवेत्।

बुधवासरे स्वीये शासकीयावासे कृषिविभागस्य उपवेशने सः अवदत् यत् राज्यसरकारः फार्मर रजिस्ट्री इत्यस्य कृषिक्षेत्रे एकीकृतलाभवितरणप्रणालीरूपेण विकासं कुर्वती अस्ति। अस्य अन्तर्गतं कृषिविभागस्य अन्येषां सम्बद्धविभागानां च सर्वाः लाभार्थियोजनाः फार्मर रजिस्ट्री इत्यनेन संयोज्यन्ते, येन कृषकाः एकस्य एव परिचयस्य आधारेण सरलतया व्यवस्थितरीत्या च विभिन्नयोजनानां लाभं प्राप्नुयुः।

तेन निर्देशाः दत्ताः यत् प्रधानमंत्री किसान सम्मान निधिः, फसलबीमायोजना इत्यादिषु योजनासु यदि लाभार्थिनां नामसु अभिलेखेषु वा काचित् त्रुटिः अथवा असंगतिः अस्ति तर्हि सा आधारसङ्ख्यया सह संयोज्य प्राथमिकतया संशोधनीया। तथा च प्रत्येकस्य पात्रस्य कृषकस्य किसानपरिचयपत्रं निर्मातुं सुनिश्चितं कर्तव्यम्, येन योजनालाभवितरणे काचित् बाधा न भवेत् तथा पात्रतायाः सत्यापनं सुलभं भवेत्।

मुख्यमन्त्रिणा उक्तं यत् कृषिविभागः स्वीयाः सर्वाः योजनाः फार्मर रजिस्ट्री इत्यनेन संयोजयितुम् आवश्यकतां तकनीकीव्यवस्थां निर्धारितसमये निर्मातुं, विभागीयपटलम् अपि ०१ मई २०२६ पर्यन्तं पूर्णतया क्रियाशीलं कर्तुं च निर्देशितः। अनेन लाभार्थिनां चयनप्रक्रिया तथा लाभवितरणप्रक्रिया अपि डिजिटलरूपेण एकीकृतरीत्या च सञ्चालिता भविष्यति।

तेन अपि निर्देशितं यत् उद्यानविभागः, पशुपालनविभागः, मत्स्यविभागः, सहकारिताविभागः लघुसिंचाईविभागः च स्वीययोजनासु किसानपरिचयपत्रस्य उपयोगाय कृषिविभागेन सह समन्वयं कुर्वन्तु तथा ३१ मई २०२६ पर्यन्तं आवश्यकतया सर्वाः सज्जाः पूर्णाः कुर्वन्तु, येन सर्वेषु विभागेषु समानव्यवस्था प्रवर्तयितुं शक्यते।

मुख्यमन्त्रिणा उक्तं यत् फार्मर रजिस्ट्री इत्यनेन कृषकाणां योजनासु संयोजनप्रक्रिया अधिकप्रभाविनी भविष्यति तथा लाभप्राप्तौ अनावश्यकजटिलताः अपि नश्यन्ति। अनेन संसाधनानां लक्ष्यितप्रयोगः सम्भविष्यति तथा विशेषपरिस्थितिषु आवश्यककृषि-उपकरणवितरणम् अपि अधिकव्यवस्थितरूपेण कर्तुं शक्यते।

तेन उक्तं यत् अस्य व्यवस्थायाः प्रवर्तनात् योजनानां लाभः पारदर्शितया कृषकेभ्यः प्राप्स्यते तथा एकस्मै एव लाभार्थिने पुनः पुनः लाभप्रदानस्थितेः अपि समीक्षा सुकरतया कर्तुं शक्यते। मुख्यमन्त्रिणा सर्वे सम्बद्धविभागाः निर्देशिताः यत् एतत् कार्यं गम्भीरतया गृहित्वा निर्धारितसमये पूर्णं कुर्वन्तु तथा अस्य नियमितपर्यवेक्षणं सुनिश्चितं कुर्वन्तु। अस्मिन् उपवेशने कृषिमन्त्री सूर्यप्रतापशाही, मुख्यसचिवः एसपीगोयलः अन्ये च अधिकारिणः उपस्थिताः आसन्।।

हिन्दुस्थान समाचार