यूपी ऑर्थोपेडिक एसोसिएशन स्पाइनल स्पेशलपाठ्यक्रमः अथ च प्रथम बीएचयू स्पाइन कैडरपाठ्रक्रमः 19 अप्रैलतः
वाराणसी, 01 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे द्वादशः उत्तरप्रदेशऑर्थोपेडिकएसोसिएशनस्य स्पेशलकोर्स इन स्पाइन इति कार्यक्रमः आगामिनि उन्नविंशतितमे एप्रिलमासे काशिहिन्दुविश्वविद्यालयस्य चिकित्साविज्ञानसंस्थाने आयोजितः भविष्यति। तेन सह प्
प्रतीकात्मक फोटो


वाराणसी, 01 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे द्वादशः उत्तरप्रदेशऑर्थोपेडिकएसोसिएशनस्य स्पेशलकोर्स इन स्पाइन इति कार्यक्रमः आगामिनि उन्नविंशतितमे एप्रिलमासे काशिहिन्दुविश्वविद्यालयस्य चिकित्साविज्ञानसंस्थाने आयोजितः भविष्यति। तेन सह प्रथमः बीएचयू स्पाइन कैडर कोर्स अष्टादशे एप्रिलमासे तत्रैव संस्थाने आयोजितः भविष्यति।

एते उभौ कार्यक्रमौ राज्यस्तरीयराष्ट्रस्तरीयप्रतिष्ठितैः अध्यापकविशेषज्ञैः सह सम्पन्नौ भविष्यतः, यत्र मेरुदण्डसम्बद्धसमस्याः तेषां नवीनतमाः सिद्धान्ताः निदानप्रक्रियाः उपचारपद्धतयः च केन्द्रिताः भविष्यन्ति।

अस्मिन् कार्यक्रमे ऑर्थोपेडिकशल्यचिकित्सकाः स्पाइनविशेषज्ञाः प्रशिक्षवः तथा स्पाइनसेवायां रुचिं वहन्तः अन्ये स्वास्थ्यव्यावसायिनः च सहिताः प्रायः अष्टाशीतितः शतपर्यन्तं प्रतिभागिनः भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति। आयोजकाध्यक्षः प्रोफेसरः अजीतसिंहः ऑर्थोपेडिक्स विभागात् बुधवासरे एतां जानकारीं दत्तवान्।

तेन उक्तं यत् अस्मिन् कार्यक्रमे प्रमुखविषयाः डिस्कसम्बद्धसमस्याः स्पाइनलडीजेनेरेशन घिसावट विकृतिः डीफॉर्मिटी संक्रमणम् अन्ये च मेरुदण्डसम्बद्धविकाराः भविष्यन्ति।

कार्यक्रमे लक्षितव्याख्यानानि केसप्रस्तुतयः अन्तरक्रियात्मकचर्चाः पैनलप्रश्नोत्तराणि च भविष्यन्ति। अस्मिन् राज्यराष्ट्रस्तरीयप्रतिष्ठिताः स्पाइनविशेषज्ञाः अपि सम्मिलिताः भविष्यन्ति।

अस्मिन् कार्यक्रमे ऑर्थोपेडिकशल्यचिकित्सकाः न्यूरोशल्यचिकित्सकाः स्पाइनविषये रुचिं वहन्तः प्रशिक्षवः फिजियोथेरेपिस्टाः तथा स्पाइनसेवायां संलग्नाः अन्ये सहयोगीस्वास्थ्यव्यावसायिनः अपि सहभागं कर्तुं शक्नुवन्ति।अस्य कृते पंजीकरणं चिकित्साविज्ञानसंस्थानस्य ऑर्थोपेडिक्सविभागे क्रियते।

हिन्दुस्थान समाचार