Enter your Email Address to subscribe to our newsletters

-क्लब इत्यस्य डायमण्डजुबलीसमारोहम् आधृत्य स्मारिका प्रकाशिता
प्रयागराजः, 01 अप्रैलमासः (हि.स.)। इलाहाबादनगरे यंगस्टर्स क्लब इत्यस्य पंचसप्ततिवर्षपूर्त्याः (डायमण्ड जुबिली) उपलक्ष्य क्लब इत्यस्य स्मारिकायाः विमोचनसमारोहः बुधवासरे एलनगंज स्थिते दुर्गावती इंटरनेशनल स्कूल एंड कॉलेज इत्यत्र सम्पन्नः।
जिला फुटबाल संघ इत्यस्य तत्वावधाने आयोजिते अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण सुशील मिश्रा (प्रदेशसहसंयोजकः विधिकानूनविभागः भाजपा उत्तरप्रदेश तथा उच्चन्यायालयस्य अधिवक्ता, जिलाओलम्पिकसंघस्य अध्यक्षः) स्मारिकायाः विमोचनं कृतवान्। समारोहस्य अध्यक्षतां महाविद्यालयस्य प्रधानाचार्या डॉ. स्वतंत्र मिश्रा अकरोत्। विशिष्टातिथिरूपेण कौशाम्बीजिलायाः पूर्वमुख्यविकासाधिकारी बीएन मिश्रा अपि उपस्थितः आसीत्।
जिलाफुटबालसंघस्य पक्षतः सोमनाथ चन्दा, नारायनजी गोपाल, मकबूल अहमद (सचिवः), कबीर खानो, डॉ. उमर हसन (हृदयरोगविशेषज्ञः) इत्यादयः अतिथीनां स्वागतं कृतवन्तः।
यंगस्टर्स क्लब इत्यस्य पक्षतः संजीव चन्दा कार्यक्रमस्य संचालनं कृतवान्, तथा नारायनजी गोपाल धन्यवादप्रस्तावं निवेदितवान्।
अस्मिन् अवसरे अन्ये अपि बहवः वरिष्ठक्रीडकाः तथा विशिष्टव्यक्तयः उपस्थिताः आसन्—यथा सोमनाथ चन्दा, जहीर हसन, आलोक सरकार, अमलसेन गुप्ता, शफीर हसन, प्रेम भूटानी, अशोक सिंहः, आरपी भटनागर, प्रमोद सिंह, डॉ. जूली ओझा, अजय प्रकाशः (महर्षिमहेशयोगीसंस्थानस्य निदेशकः), कुलदीप सिंह, आरपी शुक्ला (पूर्वराष्ट्रियवॉलीबालक्रीडकः), जार्डन एच. नाथो, राजेश रायः, उत्कर्ष कांतिः, अभिनव गोपालः, उमेश खरे, दीपेन्द्र नारायणः, श्रीधन भटनागरः, केबीएल श्रीवास्तवो, जीतेन्द्र नारायणो, राहुल श्रीवास्तवो (विक्की), निखिल कुशवाहा, अल्ताफ अली, संजय भट्टाचार्यो, विजया सिंह, अमित बैजलः, स्मृता गोपाल इत्यादयः।
एवं सः समारोहः सौहार्दपूर्णवातावरणे सफलतया सम्पन्नः अभवत्।
---------------
हिन्दुस्थान समाचार