बिपार्ड स्किल पार्क इत्यस्य दक्षता भवनं मुख्यमंत्री निरीक्षितवान्, अधिकारिभ्यो दत्ताः निर्देशाः
पटना, 01 अप्रैलमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः अद्य वाल्मी जलभूमिप्रबन्धनसंस्थानस्य परिसरस्थे पटनानगरे स्थिते बिपार्डस्किलपार्कस्य दक्षताभवनस्य निरीक्षणम् अकरोत्। अस्मिन् अवसरे सः तत्र स्थितानां व्यवस्थाः अवलोक्य अधिकाऱिभ्यः आवश्यकान्
बिपार्ड स्किल पार्क के दक्षता भवन का मुख्यमंत्री ने किया निरीक्षण, अधिकारियों को दिये निर्देश


बिपार्ड स्किल पार्क के दक्षता भवन का मुख्यमंत्री ने किया निरीक्षण, अधिकारियों को दिये निर्देश


बिपार्ड स्किल पार्क के दक्षता भवन का मुख्यमंत्री ने किया निरीक्षण, अधिकारियों को दिये निर्देश


पटना, 01 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः अद्य वाल्मी जलभूमिप्रबन्धनसंस्थानस्य परिसरस्थे पटनानगरे स्थिते बिपार्डस्किलपार्कस्य दक्षताभवनस्य निरीक्षणम् अकरोत्।

अस्मिन् अवसरे सः तत्र स्थितानां व्यवस्थाः अवलोक्य अधिकाऱिभ्यः आवश्यकान् निर्देशनान् अददात्।

एतस्मिन् काले मुख्यमन्त्री विभिन्नेषु कक्षेषु अध्ययनरतैः छात्रैः सह संवादं कृत्वा तान् प्रोत्साहितवान्।

सः अवदत् यत् भवन्तः मनसा एकाग्रतया उत्तमं प्रशिक्षणं प्राप्नुवन्तु, येन उत्तमं रोजगारं लभेयुः। सरकारः युवानां रोजगारप्रदाने दृढसंकल्पिता अस्ति। बिहारराज्यस्य युवान् रोजगारस्य तकनीकीप्रशिक्षणस्य च माध्यमेन आत्मनिर्भरान् कर्तुं बहवः उपायाः कृताः सन्ति।

मुख्यमन्त्री हिमाद्रीछात्रावासस्य अपि निरीक्षणं कृतवान् तथा अन्येषां छात्रावासानां व्यवस्थाः विषये अपि सूचनां प्राप्तवान्।

मुख्यमन्त्री उक्तवान् यत् सम्पूर्णः परिसरः व्यवस्थितः धार्यताम् तथा अत्र प्रशिक्षणं प्राप्नुवतां छात्राणां सुविधाः सम्यक् पालयन्ताम्।

अस्य निरीक्षणस्य समये जलसंसाधनमन्त्री विजयकुमारचौधरी, मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, मुख्यसचिवः प्रत्ययअमृतः, सामान्यप्रशासनविभागस्य अपरमुख्यसचिवः डॉ बी राजेन्दरः, मुख्यमन्त्रिणः सचिवः कुमाररवि, मुख्यमन्त्रिणः सचिवः डॉ चन्द्रशेखरसिंहः, युवा रोजगार कौशलविकासविभागस्य सचिवः कौशलकिशोरः, जिलाधिकारी डॉ त्यागराजन एस एम, वरिष्ठपुलिसअधीक्षकः कार्तिकेय के शर्मा इत्यादयः अन्ये च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार