लॉस एंजिल्स इत्यत्र जातं चलचित्रस्य 'रामायण' इत्यस्य विशेषेण प्रसारणं, रणबीरस्य ‘श्रीराम’इत्यस्य अवतारसंबद्धं दृश्यं लक्षितम्
रणबीर कपूर नाम प्रसिद्धः हिन्दीचलच्चित्रनटः अद्यतनकाले स्वस्य बहुप्रतीक्षितचलच्चित्रं ‘रामायण’ इत्यस्य कारणेन विशेषतया चर्चायां वर्तते, यत् अस्मिन् वर्षे दीपावलिपर्वणि प्रदर्शितुं नियोजितम् अस्ति। अलीकाले लॉस एंजिल्स नगरे अस्य चलच्चित्रस्य विशेषप्र
रणबीर कपूर  - फोटो सोर्स एक्स


रणबीर कपूर नाम प्रसिद्धः हिन्दीचलच्चित्रनटः अद्यतनकाले स्वस्य बहुप्रतीक्षितचलच्चित्रं ‘रामायण’ इत्यस्य कारणेन विशेषतया चर्चायां वर्तते, यत् अस्मिन् वर्षे दीपावलिपर्वणि प्रदर्शितुं नियोजितम् अस्ति। अलीकाले लॉस एंजिल्स नगरे अस्य चलच्चित्रस्य विशेषप्रदर्शनं आयोजितम्, यत्र दर्शकानां समक्षं तस्य ‘श्रीराम’रूपस्य प्रथमदर्शनं प्रदर्शितम्।

अस्मिन् अवसरे सः माध्यमैः सह संवादं कुर्वन् एकं रोचकं रहस्यं उद्घाटितवान्, येन तस्य प्रशंसकाः अपि विस्मिताः अभवन्। तेन उक्तं यत् यदा निर्माता नमित मल्होत्रा प्रथमवारं तस्मै ‘श्रीराम’ इति पात्रस्य प्रस्तावं दत्तवान्, तदा सः तत् अस्वीकारितवान्। सः अवदत्— “प्रायः चत्वारिवर्षपूर्वं यदा मम समीपे एषः प्रस्तावः आगतः, तदा मम प्रथमप्रतिक्रिया न स्वीकरणरूपा आसीत्। मया मनसि अनुभूतं यत् अहं अस्य पात्रस्य योग्यः नास्मि, न च अस्य न्यायं कर्तुं समर्थः।”

अनन्तरं तु सः एतां परिस्थितिं स्वीकृत्य पूर्णसमर्पणेन अस्य पात्रस्य कृते स्वयम् सज्जः अभवत्। तेन अपि उक्तं यत् ‘रामायण’ केवलं चलच्चित्रं न, अपि तु शिक्षाप्रदं महाकाव्यम् अस्ति, यतः अस्मात् सहानुभूतिः, प्रेम, समता च इत्यादयः मूल्याः अवगन्तुं शक्यन्ते। अस्य चलच्चित्रस्य निर्देशकस्य नितेश तिवारी दृष्टिकोणः अपि तं एतत् पात्रं स्वीकर्तुं प्रेरितवान्।

अस्मिन् चलच्चित्रे साई पल्लवी ‘सीता’रूपेण, यश ‘रावण’रूपेण, सनी देओल ‘हनुमान’रूपेण, तथा रवि दुबे ‘लक्ष्मण’रूपेण दृश्यन्ते। अयं भव्यपरिमाणेन निर्मीयमानः चलच्चित्रं भारतीयचलच्चित्रक्षेत्रस्य महत्तमेषु परियोजनासु अन्यतमं मन्यते, यस्य विषये दर्शकानां मध्ये महान् उत्साहः वर्तते।

हिन्दुस्थान समाचार