प्रातरारभ्य विलंबितरात्रिं यावत् निर्वाचनप्रचारे युता ममता बनर्जी, अद्यापि व्यस्ता कार्यसूची
मेदिनीपुरम्, 1 अप्रैलमासः (हि.स.)।पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जी मङ्गलवासरे प्रातःकालात् आरभ्य रात्रेः पर्यन्तं पश्चिममेदिनीपुर बाङ्कुड़ा जिलयोः अनेकेषु निर्वाचनसभासु गोष्ठीषु च सम्बोधनम् अकरोत्। चन्द्रकोणा गढ़बेता विष्णुपुरेषु आयोजितासु
ममता बनर्जी


मेदिनीपुरम्, 1 अप्रैलमासः (हि.स.)।पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जी मङ्गलवासरे प्रातःकालात् आरभ्य रात्रेः पर्यन्तं पश्चिममेदिनीपुर बाङ्कुड़ा जिलयोः अनेकेषु निर्वाचनसभासु गोष्ठीषु च सम्बोधनम् अकरोत्। चन्द्रकोणा गढ़बेता विष्णुपुरेषु आयोजितासु सभासु समागतजनसमूहम् उद्दिश्य सा अवदत् यत् जनतानां एषः अपरिमितः समर्थनमेव तस्याः महत्तमा शक्तिः अस्ति तथा च अनेन स्पष्टं भवति यत् राज्ये विकासराजनीतये एव समर्थनं भविष्यति।

मुख्यमन्त्री वर्तमानराजनीतिकपरिस्थितीनां विषये व्यङ्ग्यं कृत्वा कविगुरोः रवीन्द्रनाथ ठाकुरस्य उक्तिं उद्धृतवती यत् नागिनः सर्वतः विषाक्तश्वासान् त्यजन्ति। सा अवदत् यत् यदा शान्तिसौहार्दयोः वार्ताः उपहासस्य विषयः भवन्ति तदा लोकतन्त्रस्य रक्षणार्थं जनतैव अग्रे आगन्तव्या भवति।

सा भारतीयजनतापक्षं प्रति आरोपं कृत्वा अवदत् यत् दिल्लीस्थिताः जमीन्दाराः बङ्गालभूमौ साम्प्रदायिकतां प्रसार्य सत्तां प्राप्तुम् इच्छन्ति। सा आरोपितवती यत् ये जनाः बङ्गालसंस्कृतेः अस्मितायाः च अपमानं कुर्वन्ति तथा च सामान्यजनानां लोकतान्त्रिकाधिकारान् दमनं कर्तुम् प्रयतन्ते तान् राज्यजनता कदापि न क्षमिष्यति।

ममता बनर्जी स्वभाषणे मेदिनीपुर खड़गपुर ग्रामीण शालबनी ओंदा कोतलपुरादिषु क्षेत्रेषु स्थितानां तृणमूलदलस्य अभ्यर्थिनां समर्थनार्थं मतदानस्य आह्वानं कृतवती। सा अवदत् यत् बङ्गालस्य जनताः एकत्रिताः सन्तः कुप्रचारं विभाजनकारीराजनीतिं च विरोध्य मतदानं करिष्यन्ति तथा लोकतान्त्रिकमूल्यानां रक्षणं करिष्यन्ति।

मङ्गलवासरस्य सभानन्तरं मुख्यमन्त्रिणः निर्वाचनअभियानम् बुधवासरे अपि प्रवर्तते। निर्धारितकार्यक्रमानुसारं सा बीरभूमजिले नानूरविधानसभाक्षेत्रे अलअमीनमॉडलविद्यालयस्य पापुरीप्राङ्गणे जनसभां करिष्यति यत्र दलस्य अभ्यर्थिनः बिधानचन्द्रमाझी समर्थनार्थं जनान् आह्वास्यति। ततः पश्चात् मुर्शिदाबादजिले बुरवानविधानसभाक्षेत्रे डाकबङ्गलाकिशनमण्डीप्राङ्गणे प्रतिमारजक समर्थनार्थं सभां सम्बोधयिष्यति। अनन्तरं जंगीपुरस्य भोलाडाङ्गाफुटबॉलप्राङ्गणे नवग्रामविधानसभाक्षेत्रस्य अभ्यर्थिनः प्रणबचन्द्रदास समर्थनार्थं जनसभां करिष्यति।

---------------

हिन्दुस्थान समाचार