Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, ०१ अप्रैलमासः (हि.स.)। आयुर्वेदस्य वैश्विक-परिचयं प्रदातुं तथा भारतीय-ज्ञान-परम्परायाः संरक्षणे निरन्तरं कार्यं कुर्वन्तं आचार्यबालकृष्णमहोदयम् अन्येन अन्ताराष्ट्रिय-सम्मानेन सम्मानितवन्तः। नेट ग्रीन फाउंडेशन इत्यस्याः संस्थायाः आयोजनान्तर्गतं “अर्थ-अवार्ड् एण्ड् हाई-इम्पैक्ट् सस्टेनेबिलिटी-डायलॉग–२०२६” इत्यस्मिन् कार्यक्रमे तस्मै “विश्व-आयुर्वेद-रत्न” इति सम्मानं प्रदत्तम्। अयं समारोहः यूनेस्को-हाउस-मध्ये आयोजितः, यस्मिन् देश-विदेशयोः बहवः प्रतिष्ठित-व्यक्तयः उपस्थिताः आसन्।
यद्यपि आचार्य-बलकृष्णः अस्मिन् कार्यक्रमे व्यक्तिगत-रूपेण उपस्थितः न आसीत्, तथापि सः एतत् सम्मानं सहस्रवर्ष-प्राचीनायै आयुर्वेद-परम्परायै समर्पितवान्। तेन उक्तं यत् एतत् सम्मानं केवलं कस्यचित् व्यक्तेः न, अपि तु तस्याः समृद्धायाः भारतीय-परम्परायाः अस्ति, या “सर्वे भवन्तु सुखिनः” इति सिद्धान्तं जीवन्तं कृत्वा मानवतायै समग्र-स्वास्थ्यस्य संतुलित-जीवनस्य च मार्गं प्रदर्शयति।
अस्मिन् कार्यक्रमे मंजिंदरसिंह: सिरसा तथा डॉ.बेन्नोबोएरेण सह अनेके अन्ताराष्ट्रिय-विशेषज्ञाः नीति-निर्मातारश्च उपस्थिताः आसन्। अस्मिन् अवसरे सर्वे अतिथयः आयुर्वेदस्य सतत-विकासेन सह प्रगाढ-संबन्धं विषये स्वविचारान् व्यक्तवन्तः।
नेट-ग्रीन-फाउंडेशन एका अन्ताराष्ट्रिया संस्था अस्ति, या पर्यावरण-संरक्षणं, जलवायु-परिवर्तनम्, सतत-विकासः तथा पारम्परिक-ज्ञान-प्रणालीनां संवर्धनं प्रति कार्यं करोति। अस्याः संस्थायाः उद्देश्यं वैश्विक-स्तरे तादृशानां प्रयासानां मान्यता दातुम् अस्ति, ये प्रकृतेः मानवस्य च मध्ये संतुलनं स्थापयितुं सहायकाः भवन्ति। “अर्थ-अवार्ड्” इत्ययं अस्य एव प्रयत्नस्य अंशः अस्ति, यस्मिन् विभिन्न-क्षेत्रेषु उत्कृष्ट-कार्यं कुर्वन्तः जनाः सम्मानिताः भवन्ति।
आचार्य-बलकृष्णेन पतंजलि-आयुर्वेद-माध्यमेन आयुर्वेदः आधुनिक-वैज्ञानिक-दृष्ट्या सह संयोज्य विश्व-मञ्चे प्रतिष्ठापितः। तेन न केवलं आयुर्वेदिक-उत्पादाः गृहं गृहं प्रति प्रापिताः, अपि तु अनुसन्धानम्, शिक्षा तथा औषधीय-पादपानां संरक्षणस्य क्षेत्रे अपि उल्लेखनीयं कार्यं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता