स्टेट प्रगति पटलस्य माध्यमेन भविष्यति राज्यकेन्द्रयोः योजनानां समीक्षा
देहरादूनम्, 01 अप्रैलमासः (हि.स.)। मुख्यसचिवः आनन्दबर्द्धनः बुधवासरे सचिवालये स्टेटप्रगति पटलस्य समीक्षा कृतवान्। मुख्यसचिवः अवदत् यत् विभागैः सञ्चालितानां राज्यकेंद्रपोषितमहत्त्वपूर्णयोजनानां समीक्षा स्टेटप्रगति पोर्टलमाध्यमेन एव क्रियिष्यते। सः
बैठक में अधिकािरियाें काे निर्देश देते मुख्य सचिव।


देहरादूनम्, 01 अप्रैलमासः (हि.स.)।

मुख्यसचिवः आनन्दबर्द्धनः बुधवासरे सचिवालये स्टेटप्रगति पटलस्य समीक्षा कृतवान्। मुख्यसचिवः अवदत् यत् विभागैः सञ्चालितानां राज्यकेंद्रपोषितमहत्त्वपूर्णयोजनानां समीक्षा स्टेटप्रगति पोर्टलमाध्यमेन एव क्रियिष्यते। सः उक्तवान् यत् विभागाः स्वीयमहत्त्वपूर्णयोजनाः शीघ्रं पोर्टले आरोपयन्तु।

मुख्यसचिवेन नियोजनविभागेन निर्मितस्य पोर्टलस्य एतादृशं विन्यासं कर्तुं निर्देशाः दत्ताः येन योजनानां विभागवारं योजनावारं च समीक्षा कर्तुं शक्येत। सः अवदत् यत् विभागैः स्वीयप्रकल्पानां विभिन्नस्तराणि माइलस्टोनरूपेण निर्धारयितव्यानि, येन मन्दगत्याः प्रकल्पाः अपि दृष्टिपथि स्थापयितुं शक्यन्ते। अनेन योजनाः निर्धारितसमये पूर्णतां प्राप्नुयुः इति सहाय्यं भविष्यति।

मुख्यसचिवः पटले सर्वेषां विभागानां सञ्चालिताः स्वरोजगारयोजनाः अपि सम्मिलनीयाः इति उक्तवान्। सः अवदत् यत् एताभिः योजनाभिः अद्यावधि कियत् जीविका स्रष्टा इति अपि विश्लेषणीयम्। अस्य कृते सः नियोजनविभागं निर्देशितवान् यत् सर्वेषां विभागानां स्वरोजगारसम्बद्धयोजनानां गतत्रिपञ्चवर्षाणां विश्लेषणं कृत्वा प्रतिवेदनं निर्मीयताम्, येन योजनानां समीक्षा कर्तुं तासां दोषान् ज्ञात्वा निराकर्तुं च शक्येत।

मुख्यसचिवः स्टेटप्रगति पटलस्य परीक्षणं कृत्वा विभिन्नविभागानां योजनानां प्रगतिविषये सूचना अपि प्राप्तवान्। स्वास्थ्यविभागस्य समीक्षा कुर्वन् सः प्रदेशस्य विभिन्नेषु जनपदेषु चिकित्सालयानां, उपजिलाचिकित्सालयानां, चिकित्सामहाविद्यालयानां च निर्माणकार्याणां अद्यतनस्थितिं ज्ञातवान्। सः भवननिर्माणकार्यैः सह स्वास्थ्यविभागं मानवसंसाधनवृद्धिं यन्त्रसुधारं च स्वीययोजनासु सम्मिलयितुं निर्देशितवान्।

एतदर्थं सः समग्रयोजना निर्माणं कर्तुं अपि उक्तवान्। तथैव भवननिर्माणे भूमिगतवाहनस्थापनस्थानस्य अनिवार्यसमावेशं कर्तुं बलं दत्तवान्। अस्मिन् उपवेशने प्रमुखसचिवः आरमीनाक्षीसुन्दरम्, सचिवः सचिनकुर्वे, डॉ बीवीआरसी पुरुषोत्तमः, अपरसचिवा झरनाकमठान इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार