पाकिस्तान-स्थित-गुरुद्वाराणां दर्शनार्थं भारतीय-श्रद्धालूनां दलं प्रस्थितम्
अमृतसरम्, १० अप्रैलमासः (हि.स.)। खालसा-साजना-दिवसस्य (वैसाखी) पावन-अवसरे पाकिस्तान-स्थितानां ऐतिहासिक-गुरुद्वाराणां दर्शनार्थं भारतस्य सर्वेभ्यः प्रदेशेभ्यः प्रायः २८४० सिख-श्रद्धालवः शुक्रवासरे प्रातः अटारी-वाघा-सीमा-मार्गेण पाकिस्तानं प्रति प्रस्
पाकिस्तान जानने वाले श्रद्धालु।


जत्थे की अगुवाई सदस्य सुरजीत सिंह तुगलवाल


पाकिस्तान जानने वाले श्रद्धालु।


अमृतसरम्, १० अप्रैलमासः (हि.स.)। खालसा-साजना-दिवसस्य (वैसाखी) पावन-अवसरे पाकिस्तान-स्थितानां ऐतिहासिक-गुरुद्वाराणां दर्शनार्थं भारतस्य सर्वेभ्यः प्रदेशेभ्यः प्रायः २८४० सिख-श्रद्धालवः शुक्रवासरे प्रातः अटारी-वाघा-सीमा-मार्गेण पाकिस्तानं प्रति प्रस्थिताः। शिरोमणि-गुरुद्वारा-प्रबंधक-समितेः (एसजीपीसी) पक्षतः प्रायः १७६३ श्रद्धालूनां दलं विशेषरूपेण प्रेषितम्। तदतिरिक्तं दिल्ली-सिख-गुरुद्वारा-प्रबंधक-समितेः हरियाणा-समितेः अन्य-राज्येभ्यश्च श्रद्धालवः अपि अस्मिन् जथे सम्मिलिताः सन्ति। एवं प्रकारेण कुलं २८४० श्रद्धालवः पाकिस्तानं गत्वा खालसा-साजना-दिवसं आचरितुं गुरुधामानां दर्शनं कर्तुं च प्रस्थिताः।

एसजीपीसी-संस्थायाः पक्षतः अस्य जत्थस्य नेतृत्वं सदस्यः सुरजीत-सिंह-तुगलवालः करोति। सः उक्तवान् यत् सिख-श्रद्धालवः स्वगुरुधाम्नां दर्शनार्थं दृढां श्रद्धां भक्तिं च धारयन्ति। एषः समूह: पाकिस्तान-स्थितेषु गुरुद्वारेषु यथा गुरुद्वारा-ननकाना-साहिब, गुरुद्वारा श्रीपंजासाहिब (हसन-अब्दाल) इत्यादिषु ऐतिहासिक-स्थलेषु मत्था टेकिष्यति तथा मुख्य-समागमे भागं गृहीत्वा १९ अप्रैलमासे भारतं प्रत्यागमिष्यति। श्रद्धालूनां कृते दशदिवसीय-पारपत्रं प्रदत्तमस्ति।

एसजीपीसी-अधिकारीभिः उक्तं यत् अस्य यात्रादलस्य कृते १७९५ पासपोर्ट-इत्यादिनी पाकिस्तान-दूतावासाय प्रेषितानि आसन्, येषु १७६३ जनानां पारपत्रं स्वीकृतम्, ३२ जनानां आवेदनानि अस्वीकृतानि। येषां पारपत्रं न प्राप्तम्, तेषां मध्ये विषादः दृश्यते। श्रद्धालवः उभयदेश-सर्वकारौ प्रति आह्वानं कृतवन्तः यत् अधिकाधिकजनानां पारपत्रं प्रदीयेत, येन सर्वे स्वगुरुधाम्नां दर्शनं कर्तुं शक्नुयुः। तेन सह करतारपुर-गलियारा अधिकसुविधायुक्तः क्रियताम् तथा पाकिस्तान-सर्वकारेण आरोपितः २०-डॉलर-शुल्कः अपि निराक्रियेत इति अपि ते अपेक्षितवन्तः।

अस्मिन् अवसरे एसजीपीसी-सचिवः कुलवंत-सिंह-मन्नन् उक्तवान् यत् १४ अप्रैलमासे खालसा-साजना-दिवसस्य उपलक्ष्ये एषा यात्रा आयोजिता। सः उक्तवान् यत् एषा दशदिवसीया धार्मिक-यात्रा अस्ति, यस्यां श्रद्धालवः पाकिस्तान-स्थितेषु विविधेषु गुरुद्वारेषु मत्था टेकित्वा प्रसन्नतया प्रत्यागमिष्यन्ति। जत्थ-नेता सुरजीत-सिंह-तुगलवालः अपि उक्तवान् यत् गुरु-नानक-देवस्य पावन-भूमिः ननकाना-साहिबः तथा पंजा-साहिबः इत्यत्र दर्शनं सर्वेषां सिक्खानां कृते सौभाग्यकरम् अस्ति। सः गुरु-नानक-देवस्य मानवता-एकता-भ्रातृत्व-सन्देशं स्मारितवान् तथा लंगर-परम्परां समानतायाः मार्गरूपेण वर्णितवान्। सः सर्वेषां कृते चढ़दी-कला-प्रार्थनां कृतवान्।अस्य यात्रादले विशेषः पक्षः अपि अस्ति यत् प्रायः २०० एकाकिनी-स्त्रियः अपि पारपत्रं प्राप्तवत्यः सन्ति, यत् बिना कस्यचित् पारिवारिक-सहयोगेन यात्रां कुर्वन्ति। पूर्वं एसजीपीसी उक्तवती आसीत् यत् एकाकिनी-स्त्रियः न प्रेष्यन्ते, किन्तु अस्मिन् वर्षे ताः अपि सम्मिलिताः।

गौरवनीयं यत् गतवर्षे सरबजीत-कौर-नामिका घटनाविषये विवादः उत्पन्नः आसीत्, यः पश्चात् पाकिस्ताने एव स्थिता निकाहं कृतवती। अस्यां घटनायां सुरक्षा-संस्था: सतर्काः अभवन्। तेन कारणेन एषा यात्रा अस्मिन् वर्षे विशेष-निरीक्षणेन सम्पन्ना भवति, तथा यात्रिणः दृढ-स्तरीय-प्रमाणीकरण-प्रक्रियायाः अन्तर्गतं स्थाप्यन्ते, यया धार्मिक-उद्देश्यस्य सत्यता सुनिश्चित्यते इति।

हिन्दुस्थान समाचार / अंशु गुप्ता