श्रीरामजन्मभूमि-परकोटा-स्थितेषु सर्वेषु मन्दिरेषु १३ अप्रैलमासात् सामान्य-दर्शनं प्रारभ्यते, तथा अन्तर्जाल-आरक्षणम् अपि आरब्धम्
अयोध्यानगरम्, १० अप्रैलमासः (हि.स.)। श्रीरामजन्मभूमिपरिसरे अग्रिम १३ अप्रैलमासस्य सोमवासरात् परकोटस्थितानि सर्वाणि मन्दिराणि—शेषावतार-मन्दिरम्, सप्त-मन्दिराणि, कुबेर-टीला च—भक्तानां सामान्य-दर्शनाय उद्घाट्यन्ते। श्रीरामजन्मभूमितीर्थ-क्षेत्र-न्यास
राम मंदिर


अयोध्यानगरम्, १० अप्रैलमासः (हि.स.)। श्रीरामजन्मभूमिपरिसरे अग्रिम १३ अप्रैलमासस्य सोमवासरात् परकोटस्थितानि सर्वाणि मन्दिराणि—शेषावतार-मन्दिरम्, सप्त-मन्दिराणि, कुबेर-टीला च—भक्तानां सामान्य-दर्शनाय उद्घाट्यन्ते।

श्रीरामजन्मभूमितीर्थ-क्षेत्र-न्यासस्य मन्दिर-व्यवस्थायां नियुक्तः गोपालरावः शुक्रवासरे अवदत् यत् सुगम-दर्शनम्, विशिष्ट-दर्शनम् तथा सामान्य-दर्शन-पत्रधारिणः (यथा सम्भवम् चलन-यन्त्र-उपयोगिनः अपि) भक्ताः दर्शनं कर्तुं शक्नुवन्ति।

अद्यतनात् प्रारभ्य अन्तर्जाल-माध्यमेन सामान्य-दर्शन-पत्रस्य आरक्षणम् अपि आरब्धम् अस्ति। प्रारम्भिक-व्यवस्थायां प्रत्येकं द्वि-होरा-समये अधिकतमं १५०० भक्ताः दर्शनं कर्तुं शक्नुवन्ति इति व्यवस्था कृता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता