मुख्यमंत्री सायः पद्मश्री जागेश्वर यादवस्य जीवने आधारितस्य पुस्तकस्य “बिरहोर जननायकस्य” कृतं विमोचनम्
सेवासमर्पणयोः प्रेरकं प्रपत्रम् इत्येषा कृतिः - मुख्यमंत्री रायपुरम् 10 अप्रैलमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायः अद्य शुक्रवासरे राजधानी रायपुरे स्थिते मुख्यमन्त्री-निवास-कार्यालये पद्मश्री-पुरस्कार-प्राप्तस्य जागेश्वर यादव इत्यस्य जीवना
पद्मश्री जागेश्वर यादव के जीवन पर आधारित पुस्तक “बिरहोर जननायक” का विमोचन


सेवासमर्पणयोः प्रेरकं प्रपत्रम् इत्येषा कृतिः - मुख्यमंत्री

रायपुरम् 10 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेव सायः अद्य शुक्रवासरे राजधानी रायपुरे स्थिते मुख्यमन्त्री-निवास-कार्यालये पद्मश्री-पुरस्कार-प्राप्तस्य जागेश्वर यादव इत्यस्य जीवनाधारितस्य “बिरहोर जननायक” नामकस्य ग्रन्थस्य विमोचनम् अकरोत्। अस्मिन् अवसरॆ सः ग्रन्थस्य लेखकं डॉ लोकेश पटेल इत्यस्मै अभिनन्दनं शुभाशयांश्च अयच्छत्।

मुख्यमन्त्री साय अवदत् यत् पद्मश्री-जागेश्वर-यादवस्य जीवनं संघर्षस्य सेवायाः समर्पणस्य च अद्वितीयम् उदाहरणम् अस्ति। सः उक्तवान् यत् तस्य सम्पूर्णं जीवनं समाजस्य प्रति समर्पितम् आसीत्, तथा च तस्य कार्याणि विशेषतः जनसेवा-क्षेत्रे कार्यरत-जनानां कृते प्रेरणास्रोतः सन्ति।

मुख्यमन्त्री साय पुनरपि अवदत् यत् जशपुर-जिलायां ‘बिरहोर-भ्राता’ इति नाम्ना प्रसिद्धः जागेश्वर-यादवः बिरहोर-आदिवासी-समाजस्य उत्थानाय ये कार्याणि अकरोत्, तानि अत्यन्तं प्रशंसनीयानि सन्ति। सः उक्तवान् यत् तस्य सरलः स्वभावः समाजस्य प्रति अटूट-प्रतिबद्धता च एतत् दर्शयतः यत् सत्यम् नेतृत्वं सेवया संवेदनशीलतया च एव जायते।

मुख्यमन्त्री सायः उक्तवान् यत् “बिरहोर जननायक” नामकः ग्रन्थः तस्य संघर्षस्य समर्पणस्य सेवायाः च प्रेरणादायिनीं यात्रां प्रकाशयति, या नवपीढीं समाजस्य प्रति जागरूकां उत्तरदायिनीं च भवितुं प्रेरयति। सः विश्वासं व्यक्तवान् यत् एषा कृति: पाठकान् न केवलं प्रेरयिष्यति, अपि तु समाजस्य प्रति सकारात्मक-विचारस्य विकासे अपि सहायकं भविष्यति।

अस्मिन् अवसरे ग्रन्थस्य लेखकः डॉ लोकेश पटेल अवदत् यत् अस्य ग्रन्थस्य रचना आदिम-जनजातीनां विशेषतः बिरहोर-समुदायस्य सर्वाङ्गीण-विकासाय जागेश्वर-यादवेन कृतानां समर्पित-प्रयत्नानां प्रेरणया जाता। सः उक्तवान् यत् अस्मिन् कृतौ तस्य जीवन-संघर्षः सामाजिक-योगदानम् मानवीय-दृष्टिकोणश्च विस्तरेण निरूपिताः सन्ति।

---------------

हिन्दुस्थान समाचार