Enter your Email Address to subscribe to our newsletters

पटनानगरम्, १० अप्रैलमासः (हि.स.)। मुख्यमंत्री नीतीशकुमार: अद्य राज्यसभा-सदस्यत्वस्य शपथं स्वीकरिष्यति। अस्मिन् सम्बन्धे सः गुरुवासरे एव पटना-नगरात् दिल्लीं प्रस्थितः। दिल्ली-प्राप्तौ सः उक्तवान् यत् सः अग्रिमेषु चतुर्षु पञ्चसु वा दिनेषु मुख्यमन्त्रीपदात् त्यागपत्रं दास्यति। तस्य अस्य कथनानन्तरं बिहार-राजनीतौ महत्कम्पनं वर्धितम्।
नीतीश-कुमारस्य शपथग्रहणानन्तरं राज्यस्य नूतन-मुख्यमन्त्रिणः नाम विषये अद्य अन्तिम-निर्णयः भवितुम् अर्हति। नूतन-सर्वकार-निर्माण-विषये भारतीयजनतापक्षस्य शीर्ष-नेतृभिः दिल्ली-नगरे महत्त्वपूर्णा सभा आहूता अस्ति, यस्यां बिहार-राजनीतिक-भविष्यं प्रति महत्त्वपूर्णाः निर्णयाः सम्भाव्यन्ते।
बिहार-भाजपा-कार्यकारिणी-समूहस्य एषा निर्णायिका सभा अद्य सायं षड्वादने बिहार-भाजपा-प्रभारी विनोद: तावड़े इत्यस्य निवासे भविष्यति। अस्यां सभायां केन्द्रीय-गृहमन्त्री अमितशाह:, भाजपा-राष्ट्रीय-नेतृत्वे नितिननवीन:, तथा अन्ये कार्यकारिणी-समूह-सदस्याः उपस्थिताः भविष्यन्ति।
सभायां बिहार-राजनैतिक-समीकरणं, नूतन-मुख्यमन्त्रिणः चयनं, तथा राज्य-सर्वकार-निर्माण-संरचनाविषये विस्तृतं विमर्शं क्रियते। अस्यां उच्चस्तरीय-सभायां बिहार-सहप्रभारी, द्वौ संगठन-मन्त्रिणौ, प्रदेशाध्यक्षः, तथा राज्यस्य उभौ उपमुख्यमन्त्रिणौ अपि सम्मिलिताः भविष्यन्ति। तदतिरिक्तं बिहार-सम्बद्धाः अन्ये वरिष्ठ-नेतारः अपि आमन्त्रिताः सन्ति, येन नूतन-मुख्यमन्त्रिणः विषये व्यापक-समन्वयः कर्तुं शक्येत।
राजनीतिक-विश्लेषकाः मन्यन्ते यत् अद्यतन-सभा बिहार-राजनीतेः दिशां निर्णेष्यति, तथा राज्यस्य नूतन-मुख्यमन्त्री कः भविष्यति इति विषये अन्तिमः निर्णयः सम्भाव्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता