सेवा-संवाद-समाधान कार्यक्रमे जिलाधिकारी अशृणोत् 28 लोकानां समस्याम्
पूर्णिया, 10 अप्रैलमासः (हि.स.)। जिलाधिकारी अंशुल कुमारः ‘सेवा संवाद समाधान अनुश्रवण प्रणाली’ अन्तर्गत ‘सर्वेषां सम्मानः जीवनं सुलभम् इत्येस्य’ कार्यक्रमस्य अन्तर्गतं समाहरणालये स्थिते प्रज्ञान सभागारे जनसामान्येन सह प्रत्यक्षं संवादं कृतवान्। अस्
समस्याएं सुनते डीएम अंशुल कुमार


पूर्णिया, 10 अप्रैलमासः (हि.स.)।

जिलाधिकारी अंशुल कुमारः ‘सेवा संवाद समाधान अनुश्रवण प्रणाली’ अन्तर्गत ‘सर्वेषां सम्मानः जीवनं सुलभम् इत्येस्य’ कार्यक्रमस्य अन्तर्गतं समाहरणालये स्थिते प्रज्ञान सभागारे जनसामान्येन सह प्रत्यक्षं संवादं कृतवान्। अस्मिन् अवसरे सः जनानां समस्याः गंभीरतया श्रुतवान् तथा सम्बद्धान् अधिकारिणः शीघ्रं कार्यवाहीं कर्तुं निर्देशितवान्।

अस्मिन् कार्यक्रमे जनपदस्य विविधेभ्यः प्रखण्डेभ्यः तथा पंचायतस्तरेभ्यः आगतैः जनैः कुलतः अष्टाविंशतिः आवेदनानि प्रस्तुतानि। तेषु अधिकतमा विषयाः राजस्वसम्बद्धाः आसन्, अन्ये च विधिशाखा सामान्यशाखा आपूर्तिविभागः तथा जिला परिषद् सम्बन्धिनः विषयाः अपि प्रमुखतया उक्ताः। जिलाधिकारी सर्वेषां प्रकरणानां शीघ्रनिष्पादनार्थं सम्बद्ध विभागीय अधिकारिभ्यः आवश्यकान् निर्देशान् दत्तवान्।

अतिरिक्ततया अस्य कार्यक्रमस्य अन्तर्गतं प्रखण्ड अनुमण्डल तथा विविधविभागानां अधिकारिणः अपि स्वस्वकार्यालयेषु उपस्थिताः सन्तः जनानां समस्याः श्रुतवन्तः तथा तासां समाधानार्थं आवश्यकानि पदानि स्वीकृतवन्तः।

उल्लेखनीयम् यत् एषः कार्यक्रमः प्रत्येकं सोमवासरे तथा शुक्रवासरे जनपदमुख्यालये तथा अनुमण्डल प्रखण्ड तथा पंचायतस्तरेषु नियमितरूपेण आयोज्यते, येन जनसामान्यानां समस्याः शीघ्रं निराकर्तुं सुनिश्चितं भवति।

कस्यचित् प्रकारस्य साहाय्यस्य अथवा सूचनायाः कृते आपदा प्रबन्धन कार्यालयस्य जिला नियन्त्रणकक्षस्य दूरभाषसंख्याः 06454-242319 / 242317 / 242320 इत्येतासु सम्पर्कः कर्तुं शक्यते। जिला प्रशासनद्वारा शीघ्रकार्यवाही सुनिश्चितं क्रियते।

---------------

हिन्दुस्थान समाचार