ज्ञानं धने परिवर्तितं कर्तुं तकनीक्या सह कुशलं कार्यबलं, अनुसंधानमपि आवश्यकम् - गडकरी
नवदिल्ली, 10 अप्रैलमासः (हि.स.)। केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी शुक्रवासरे उक्तवान् यत् ज्ञानस्य धनरूपे परिवर्तनाय नवाचारः विज्ञानं प्रौद्योगिकी च सह कुशलकार्यबलं सततअनुसन्धानं च अत्यावश्यकम् अस्ति। सः निर्माणउद्योगविकासपरिषदः आयो
केन्द्रीय मंत्री नितिन गडकरी के साथ अन्य लोग मौजूद


नवदिल्ली, 10 अप्रैलमासः (हि.स.)।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी शुक्रवासरे उक्तवान् यत् ज्ञानस्य धनरूपे परिवर्तनाय नवाचारः विज्ञानं प्रौद्योगिकी च सह कुशलकार्यबलं सततअनुसन्धानं च अत्यावश्यकम् अस्ति।

सः निर्माणउद्योगविकासपरिषदः आयोजनेन सम्पन्ने १७तमस्य सीआईडीसी विश्वकर्मा पुरस्कारस्य तथा ‘विकसितभारत २०४७’ इति प्रदर्शनीकार्यक्रमस्य सम्बोधने उक्तवान्— “वैश्विकस्तरे भारतस्य प्रतिष्ठावृद्धये निर्माणक्षेत्रे गुणवत्तायाः विषये कदापि समझौतः न करणीयः तथा शॉर्टकटमार्गस्य परिहारः आवश्यकः अस्ति।”

तेन उक्तं यत् अवसंरचनायाः उन्नयनाय शीघ्रनिर्णयग्रहणम् उत्तमपरियोजनायोजना च कार्यस्य गुणवत्तायां पूर्णं ध्यानं दातव्यं। यदि वयं नवीनप्रौद्योगिकीम् अपनयेम तथा कार्यपद्धतिं सुधारयेम, तर्हि परियोजनानां व्ययः अत्यन्तं न्यूनः भवेत्।

अस्मिन् सन्दर्भे सः अवदत् यत् अवसंरचनापरियोजनानां समये समापनाय भूम्यधिग्रहणं आवश्यकाः अनुमतयः च पूर्वमेव सम्पादनीयाः, यतः पूर्वकालीनविलम्बाः प्रशासनिकबाधाश्च परियोजनासमयसीमां ठेकेदाराणां वित्तव्यवस्थां च हानिं कृतवन्तः।

सः अपि उक्तवान् यत् परियोजनासु केवलं न्यूनव्ययः न, अपितु गुणवत्ता प्रदर्शनं च प्राथमिकतया स्थापनीयम्। जैवइन्धनस्य अन्येषां वैकल्पिकइन्धनानां च उपयोगः करणीयः, येन पेट्रोलडीजलयोः निर्भरता न्यूनिता भविष्यति व्ययः अपि न्यूनः भविष्यति।

सः अपि उक्तवान् यत् मार्गनिर्माणे प्लास्टिककचरेण जीर्णटायरैः च उपयोगः करणीयः। भारतीयाः अवसंरचनाकम्पन्यः दुबई कतार तथा अफ्रीकादेशेषु प्रमुखपरियोजनाः सफलतया सम्पन्न्य वैश्विकस्तरे स्वक्षमतां प्रदर्शितवन्तः।

अन्ते गडकरीमहाशयः विजेतृभ्यः १७तमं सीआईडीसी विश्वकर्मा पुरस्कारं प्रदत्तवान् तथा निर्माणअवसंरचनाक्षेत्रयोः गुणवत्ता नवाचारयोः योगदानाय तान् अभिनन्दितवान्।

--------------

हिन्दुस्थान समाचार