हरिवंशनारायणसिंह: राज्यसभायै नामितः
नवदिल्ली, १० अप्रैलमासः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मुद्वारा हरिवंशनारायणसिंह: राज्यसभा-सदस्यत्वाय नामितः कृतः। शुक्रवासरे गृह-मन्त्रालयेन प्रकाशितायां अधिसूचनायां उक्तं यत् एकस्य सदस्यस्य सेवानिवृत्तेः पश्चात् रिक्तौ जातं आसनं पूरयितुं राष्ट्रप
गैजेट नोटिफिकेशन की कॉपी


नवदिल्ली, १० अप्रैलमासः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मुद्वारा हरिवंशनारायणसिंह: राज्यसभा-सदस्यत्वाय नामितः कृतः। शुक्रवासरे गृह-मन्त्रालयेन प्रकाशितायां अधिसूचनायां उक्तं यत् एकस्य सदस्यस्य सेवानिवृत्तेः पश्चात् रिक्तौ जातं आसनं पूरयितुं राष्ट्रपति-वर्या एतत् नाम कृतवती।

अस्य रिक्त-स्थानस्य उत्पत्तिः पूर्व-नामित-सदस्यस्य सेवानिवृत्तेः कारणेन अभवत्। आधिकारिक-अधिसूचनायां निर्दिष्टम् यत् भारत-संविधानस्य अनुच्छेदः ८० इत्यस्य खण्डः (१) उपखण्डः (क) तथा खण्डः (३) इत्यनयोः प्रदत्त-शक्तीनां प्रयोगं कृत्वा राष्ट्रपति-वर्या हरिवंश-नारायण-सिंहं राज्यसभा-सदस्यत्वेन नामितवती, यथा रिक्त-स्थानं पूरितं भवेत्।

उल्लेखनीयं यत् हरिवंशः पूर्वं प्रसिद्धः पत्रकारः आसीत्। सः दीर्घकालं यावत् हिन्दी-दैनिक-पत्रिका “प्रभात खबर” इत्यस्य प्रधान-सम्पादकः आसीत् तथा पत्रकारितायां तस्य विशिष्टा प्रतिष्ठा आसीत्। पश्चात् सः जनता-दल-यूनाइटेड-दलेन सह राजनीतौ सम्बद्धः अभवत् तथा २०१४ तमे वर्षे बिहार-प्रदेशतः राज्यसभा-सदस्यत्वं प्राप्तवान्।

सः ९ अगस्त २०१८ तमे वर्षे राज्यसभायाः उपसभापतिः अभवत् तथा पुनः १४ सितम्बर २०२० तमे वर्षे अपि उपसभापतित्वेन निर्वाचितः। तस्य कार्यकालः २०३२ वर्षपर्यन्तं प्रवर्तते। संसद्-गृहस्य कार्येषु तस्य भूमिका संतुलित-शान्त-स्वभावयुक्ता इति मन्यते। इदानीं पुनः राष्ट्रपति-निर्देशेन राज्यसभा-सदस्यत्वाय नाम प्राप्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता