Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० अप्रैलमासः (हि.स.)। इलाहाबाद-उच्चन्यायालयस्य न्यायाधीशः यशवंतवर्मा स्वपदात् त्यागपत्रं दत्तवान्। सः स्वीयं त्यागपत्रं राष्ट्रपति-महोदयायै प्रेषितवान्।
तस्य विरुद्धं महाभियोग-प्रक्रिया आरब्धा आसीत्। लोकसभा-अध्यक्षेण जजेस्-इनक्वायरी-एक्ट् इत्यस्य अधीनं निरीक्षण-समितेः गठनं कृतम्। लोकसभा-अध्यक्षस्य आदेशं सः उच्चतम-न्यायालये आह्वानं कृतवान्, किन्तु उच्चतम-न्यायालयेन तस्य याचिका निरस्ता कृता।
उच्चतम-न्यायालयेन २२ मार्चमासे २०२५ तमे दिने अस्य प्रकरणस्य निरीक्षणाय त्रिसदस्यीय-समितेः गठनस्य आदेशः दत्तः। अस्यां समितौ पंजाब-हरियाणा-उच्चन्यायालयस्य मुख्यन्यायाधीशः शील-नागुः, हिमाचल-प्रदेश-उच्चन्यायालयस्य मुख्यन्यायाधीशः जी.एस.संधावालिया, तथा कर्नाटक-उच्चन्यायालयस्य न्यायाधीशः अनु-शिवरामन् च सम्मिलिताः आसन्।
यदा यशवंत वर्मा दिल्ली-उच्चन्यायालये न्यायाधीशः आसीत्, तदा १४ मार्चमासे २०२५ दिने तस्य गृहे अग्निकाण्डानन्तरं अग्निशमन-विभागेन नगद-राशिः प्राप्ता इति आरोपः अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता