Enter your Email Address to subscribe to our newsletters


पत्युः फरमान-खानस्य विरुद्धं प्राथमिकी एफआईआर-अभिलेखिता
भोपालनगरम्, ०९ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य खरगोन-जनपदस्य पारधी-जनजात्या सम्बद्धायाः युवत्याः मोनालिसा-प्रकरणे नूतना वार्ता समुपस्थिता। राष्ट्रीय-अनुसूचित-जनजाति-आयोगस्य (एनसीएसटी) अन्वेषणे सा युवती नाबालिका इति निर्दिष्टा।
केरळ-प्रदेशे सम्पन्न-विवाह-समये तस्याः आयुः अष्टादश-वर्षेभ्यः न्यूनः आसीत् इति उक्तः। प्रकरणानुसारम् अधिवक्ता प्रथम-दुबे १७ मार्चमासे २०२६ तमे दिने आयोगस्य समक्षं सूचनां प्रस्तुतवान्। ततः आयोगस्य निर्देशानुसारं गठितेन अन्वेषण-दलेन केरळतः महेश्वर-नगरपर्यन्तं प्रमाणपत्र-तथ्यानां च परीक्षणं कृतम्।
एनसीएसटी गुरुवासरे उद्घाटनं कृत्वा अवदत् यत् आयोगस्य अध्यक्षः अन्तर-सिंह-आर्यस्य नेतृत्वे एनसीएसटी-पूर्व-न्यायाधीशः तथा परामर्शदाता प्रकाश-उइके-इत्यस्य मार्गदर्शने अधिवक्ता प्रथम-दुबेना कृता वैधानिकी चर्चया एतत् सिद्धं यत् या युवती बालिगा-इति दर्शयित्वा विवाहः कारितः, सा वस्तुतः पारधी-जनजाति-समुदायस्य एका नाबालिगा इति आसीत्।
अन्वेषण-समये महेश्वरस्य सामुदायिक-स्वास्थ्य-केन्द्रस्य अभिलेखे युवत्याः जन्म-तिथिः ३० दिसम्बर २००९ इति प्राप्ता। अनेन आधारेण ११ मार्चमासे २०२६ तमे दिने सम्पन्न-विवाह-समये तस्याः आयुः प्रायः षोडश-वर्षीया इति उक्तम्। अन्वेषणे एतदपि प्रकाशम् आगतं यत् केरळ-प्रदेशे विवाह-पञ्जीयनाय प्रयुक्ते जन्म-प्रमाण-पत्रे भिन्ना जन्म-तिथिः अभिलेखिता आसीत्। अन्वेषण-दलेन तत् सन्दिग्धम् इति निर्दिश्य सम्बन्धित-प्रमाणपत्राणाम् आधारेण तस्य निरस्तीकरणाय निर्देशाः दत्ताः इति उक्तम्।
महेश्वर-थानायां अपहरणादि-धारासु प्राथमिकी-एफआईआर-अभिलेखिता
आयोगस्य अनुशंसानन्तरं गुरुवासरे रात्रौ महेश्वर-थानायाम् अपहरणादि-धारासु प्रकरणस्य अभिलेखनं कृतम् इति ज्ञापितम्। आरक्षकदलेन प्रकरणस्य अन्वेषणं आरब्धम्।
इन्दौर-आईजी अनुरागः उक्तवान् यत् अस्मिन् प्रकरणे प्राथमिकी अभिलेखिता, अग्रे विवेचना क्रियते। राजनैतिक-तथा अन्य-पक्षेषु अपि प्रश्नाः उत्थापिताः। अस्य विवाहस्य विषये केषाञ्चन सङ्घटनानां राजनेतानां च भूमिकायाः विषये अपि प्रश्नाः उत्थापिताः, तथापि एतेषां आरोपाणां स्वतन्त्र-पुष्टिः अद्यापि न अभवत् तथा सम्बन्धित-पक्षेभ्यः काचिदपि आधिकारिक-प्रतिक्रिया न प्राप्ता। आयोगस्य आरक्षकस्य च विस्तृत-प्रतिवेदनं सार्वजनिकं भवितुम् अद्यापि अवशिष्टम्।
राष्ट्रीय-अनुसूचित-जनजाति-आयोगस्य अग्रिमा कार्यवाही
अस्मात् उद्घाटनात् अनन्तरं आयोगः दोषिणां विरुद्धं कठोर-वैधानिक-कार्यवाहीं कर्तुं सज्जः अस्ति। आयोगेन २२ अप्रैलमासे २०२६ तमे दिने केरळ-मध्यप्रदेशयोः डीजीपी इत्येतौ आयोगस्य मुख्यालयं नवदिल्ली-नगरे प्राप्तौ। नाबालिकायाः विवाहस्य तथा अस्मिन् संलग्न-राजनैतिक-कट्टरपन्थी-सङ्घटनानां भूमिकायाः विस्तृत-प्रतिवेदनं केन्द्र-सर्वकाराय प्रेष्यते। पारधी-जनजात्या एतया नाबालिकया कन्यया सह जातम् अन्यायं केरळ-आरक्षकस्य स्थानीय-प्रशासनस्य च भूमिकायाः विषये गम्भीर-प्रश्नचिह्नानि स्थापितवान्। आयोगेन स्पष्टं कृतं यत् दोषिभ्यः दण्डः न प्रदीयते तावत् एषा कार्यवाही सूक्ष्मतया निरीक्ष्यते तथा प्रत्येकं त्रिदिने मध्यप्रदेश-केरळयोः डीजीपीभ्यां अस्य प्रकरणस्य प्रगति-प्रतिवेदनं याचितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता