Enter your Email Address to subscribe to our newsletters

खंडवानगरम्, १० अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य खण्डवाजनपदे स्थिते प्रसिद्धे तीर्थ-नगरे ओंकारेश्वरे शुक्रवासरे नर्मदा-नद्यां नौका-विपरीतत्वात् झारखण्ड-निवासिनः दश श्रद्धालवः निमग्नाः, येषां उद्धार-अभियानेन बहिः निष्कासनं कृतम्। तेषु द्वयोः अवस्था गम्भीरा अस्ति। तौ सिविल-चिकित्सालये प्रविष्टौ।
खण्डवा-आरक्षक-अधीक्षकः मनोज-कुमार-रायः उक्तवान् यत् झारखण्डस्य रांची-नगरात् प्रायः द्विपञ्चाशत् (५२) जनानां दलं शुक्रवासरे ओंकारेश्वरम् आगतम् आसीत्। मध्याह्ने प्रायः द्वादश-वादने सर्वे भिन्न-नौकाभिः नर्मदा-नद्यां नौकाविहारं कुर्वन्तः आसन्। तस्मिन् समये एकस्यां नौकायां आरूढाः दश जनाः ब्रह्मपुरी-घट्टात् संगम-घट्टं प्रति गच्छन्तः आसन्।
एतस्मिन् मध्ये नवीन-घट्टस्य समीपे नौका शिलाखण्डेन सह अभिघातं प्राप्तवती। तेन अभिघातेन काष्ठ-नौकायाः पट्टिका भग्ना जाता। पट्टिकायाः भग्नात् नौकायां जलं प्रविष्टं, येन नौका विपरीता जाता। नौकायाम् आरूढाः सर्वे दश जनाः निमग्नाः।
स्थले नियुक्ताः होमगार्ड-सैनिकाः उद्धार-अभियानं कृत्वा सर्वान् बहिः निष्कासितवन्तः। तेषु अष्ट जनानां अवस्था सम्यक् अस्ति, द्वौ तु अधिकं जलं पीतवन्तौ, तयोः फुफ्फुसेषु जलं प्रविष्टम्। तौ गम्भीर-अवस्थायां ओंकारेश्वरात् सनावदं प्रेषितौ। अद्यापि दुर्घटनाग्रस्तानां नामानि सङ्केतं च ज्ञातुं न शक्यते। आरक्षकविभागः अधुना प्रकरणस्य अन्वेषणे संलग्नः अस्ति। विस्तृत-समाचारम् अनन्तरं प्रदास्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता