Enter your Email Address to subscribe to our newsletters

इटावा, 10 अप्रैलमासः (हि.स.)।
एमनीव विज़न स्कूल स्थिते विद्यालये शुक्रवासरे अत्याधुनिक-शूटिङ्ग-रेञ्ज् इत्यस्य भव्यं उद्घाटनं कृतम्। अस्मिन् अवसरः मुख्यातिथिरूपेण पूर्वसांसदः तथा अन्तरराष्ट्रीय-शूटरः श्याम सिंह यादव उपस्थितः आसीत्। कार्यक्रमः उत्साहेन गौरवेण च सम्पन्नः, यस्मिन् बहुसंख्यकाः छात्राः छात्र्यः शिक्षकाः गणमान्य-अतिथयः च सहभागीभूताः।
कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन अभवत्, ततः अनन्तरं विद्यालयस्य छात्रैः स्वागतगीतं प्रस्तूय अतिथीनां सत्कारः कृतः। अनन्तरं मुख्यातिथिना विधिपूर्वकं शूटिङ्ग-रेञ्ज् उद्घाटितम्।
स्वीयभाषणे श्याम सिंह यादव उक्तवान् यत् शूटिङ्ग् केवलं क्रीडा नास्ति, अपितु एकाग्रता, अनुशासनं धैर्यं च इत्येषां प्रतीकं अस्ति। सः विद्यार्थिनः प्रेरितवान् यत् ते शिक्षायाः सह क्रीडासु अपि उत्कृष्टतां प्राप्तुं प्रयतन्ताम्, तथा च एतादृशाः आधुनिकसुविधाः युवानः राष्ट्रीय-अन्तरराष्ट्रीयस्तरे उन्नतिं प्रति नेतुं सहायं करिष्यन्ति इति।
अस्मिन् अवसरः अन्ताराष्ट्रिय-शूटरः चंद्रमोहन तिवारी, समाजसेवी अनिल यादव, किशन यादव, राजीव यादव, वरिष्ठ-खेल-पत्रकारः रणवीर सिंह सहिताः अनेके विशिष्टाः अतिथयः उपस्थिताः आसन्।
विद्यालय-प्रबन्धनस्य पक्षतः उपाध्यक्षः डॉ. विकास यादव तथा प्रबन्धन-निदेशकः सलिल यादव अपि कार्यक्रमे सहभागीभूतौ।
के.के. डिग्री कॉलेज इत्यस्य प्राचार्यः महेंद्र सिंह यादव स्वीयभाषणे उक्तवान् यत् वर्तमानकाले शिक्षायाः सह तकनीकी-व्यावहारिक-कौशल-विकासः अत्यावश्यकः अस्ति। तथा विद्यालयस्य अध्यक्षः अतीवीर सिंह उक्तवान् यत् संस्थानस्य उद्देश्यं विद्यार्थिनः सर्वेषु क्षेत्रेषु उत्तमान् अवसरान् प्रदातुम् अस्ति।
विद्यालयस्य प्रधानाचार्यः पंकज शर्मा एतत् संस्थानस्य कृते गौरवपूर्णं क्षणम् इति उक्त्वा वदति यत् एषा पहल विद्यार्थिनां सर्वाङ्गीण-विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
कार्यक्रमस्य समापनं राष्ट्रगानेन अभवत्। अस्याः नवीन-सुविधायाः कारणेन क्षेत्रस्य युवा-क्रीडकानां स्वप्रतिभां विकसितुं क्रीडाक्षेत्रे अग्रे गन्तुं च उत्तमः अवसरः भविष्यति इति अपेक्षा व्यक्ता।
---------------
हिन्दुस्थान समाचार