Enter your Email Address to subscribe to our newsletters

काठमांडूः, 10 अप्रैलमासः (हि.स.)।
मॉरीशसस्य पोर्ट लुईस् नगरे शुक्रवासरे एस जयशंकरेण नेपालस्य विदेशमन्त्री शिशिरखनालेन सह मेलनंकृतम्। उभयोः नेतृयोः मध्ये भारत-नेपालयोः द्विपक्षीयसम्बन्धानां तथा परस्पर-सहकार्यस्य सुदृढीकरणे विषये चर्चा अभवत्। एषा गोष्ठी मॉरीशसे १०-१२ एप्रिल् पर्यन्तं प्रवर्तमानस्य नवमस्य हिन्द-महासागर-सम्मेलनस्य (आईओसी) पार्श्वे अभवत्।
बैठकानन्तरं भारतीय-विदेशमन्त्री जयशंकरः खनाल-महोदयाय नेपालस्य विदेशमन्त्री-पदे नियुक्तेः अभिनन्दनं कृत्वा विविधेषु क्षेत्रेषु गहन-सहकार्यवृद्धेः प्रति प्रतिबद्धतां व्यक्तवान्। सः उक्तवान् यत् नेपालसह भागीदारीस्य पूर्ण-सामर्थ्यस्य साकारार्थं वयं विविधेषु क्षेत्रेषु अधिकं गहनं सहकार्यं वर्धयितुं चर्चाम् अकरोत्।
खनाल-महोदयः गुरुवासरे मॉरीशसं प्रति प्रस्थितः, सः सम्मेलनमध्ये ‘पर्वत-महासागर-संयोजनम्’ (हिमालयस्य महासागरस्य च सम्बन्धः) इति विषयं प्रमुखतया उत्थापयितुं सज्जः अस्ति। स्थलपरिवेष्ठित-देशत्वेऽपि नेपालः स्वस्य वैदेशिक-व्यापारार्थं समुद्रमार्गस्य अनिवार्यतां तथा हिन्द-महासागरस्य संरक्षणे स्वकीयां भूमिकां सम्मेलनमध्ये प्रमुखतया प्रस्तोतुं प्रयतते।
---------------
हिन्दुस्थान समाचार