ओडिशायाम् ओटीईटी 2026 आवेदनस्य अंतिम तिथिः 9 मई यावद्वर्धितम्
भुवनेश्वरम्, 10 अप्रैलमासः (हि.स.)।माध्यमिकशिक्षापरिषदः ओडिशाराज्ये ओडिशाशिक्षकपात्रतापरीक्षायाः ओटीईटी 2026 इत्यस्याः कृते ऑनलाइन आवेदनस्य अन्तिमतिथिं एकमासपर्यन्तं विस्तार्य 9 मई 2026 इति कृतवान्। पूर्वं आवेदनस्य अन्तिमतिथिः 9 अप्रैल 2026 इत्यस्य
ओडिशायाम् ओटीईटी 2026 आवेदनस्य अंतिम तिथिः 9 मई यावद्वर्धितम्


भुवनेश्वरम्, 10 अप्रैलमासः (हि.स.)।माध्यमिकशिक्षापरिषदः ओडिशाराज्ये ओडिशाशिक्षकपात्रतापरीक्षायाः ओटीईटी 2026 इत्यस्याः कृते ऑनलाइन आवेदनस्य अन्तिमतिथिं एकमासपर्यन्तं विस्तार्य 9 मई 2026 इति कृतवान्। पूर्वं आवेदनस्य अन्तिमतिथिः 9 अप्रैल 2026 इत्यस्याः मध्यरात्रिपर्यन्तं निर्धारितासीत्। तथापि बहवः अभ्यर्थिनः निर्धारितसमये आवेदनप्रक्रियां पूर्णतया समाप्तुं न अशक्नुवन्। एतत् विचार्य बोर्डेन अभ्यर्थिभ्यः अतिरिक्तसमयः दातुं निर्णयः कृतः।

सूत्रानुसारं अद्यपर्यन्तं 70000 अधिकाः अभ्यर्थिनः परीक्षायै आवेदनं कृतवन्तः सन्ति, येषु बहवः सेवायां वर्तमानाः शिक्षकाः अपि सन्ति। अन्तिमतिथेः विस्तारानन्तरं आवेदनसंख्या एकलक्षात् अधिका भविष्यतीति सम्भावना व्यक्ता अस्ति। अयं विस्तारः अभ्यर्थिभ्यः कस्यापि तकनीकीबाधायाः विना सावधानतया आवेदनपत्रं पूरयितुं अवसरं दास्यति।

उल्लेखनीयम् यत् ओटीईटी इयं कक्षा 1 तः 8 पर्यन्तं सरकारीनिजीविद्यालयेषु शिक्षकत्वं प्राप्तुम् इच्छुकानां कृते अनिवार्या पात्रतापरीक्षा अस्ति। परीक्षा 29 मई 2026 इति दिने आयोजिता भविष्यतीति सम्भाव्यते। अभ्यर्थिभ्यः परामर्शः दत्तः यत् ते नूतननिर्धारितसमयसीमायाः पूर्वमेव आधिकारिकजालपुटस्य माध्यमेन आवेदनं शुल्कसमर्पणं च पूर्णतया कुर्वन्तु।

बोर्डेन निर्गतसूचनायां उक्तम् यत् “ओटीईटी 2026 सेवारत नवीन अभ्यर्थीनां कृते ऑनलाइन आवेदनस्य अन्तिमतिथिः या पूर्वं 09.04.2026 इति निर्धारितासीत् सा अधुना 09.05.2026 पर्यन्तं विस्तारिताऽस्ति।”

----

हिन्दुस्थान समाचार