(लीड) नीतीश कुमारः, हरिवंशश्च गृहीतवन्तौ राज्यसभायाः सदस्यतायाः शपथवचनम्
नवदिल्ली, 10 अप्रैलमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री नीतीश कुमार तथा राज्यसभायाः निवर्तमान उपसभापतिः हरिवंश शुक्रवासरे राज्यसभासदस्यरूपेण शपथं गृहीतवन्तौ। उपराष्ट्रपतिः तथा राज्यसभायाः सभापतिः सी पी राधाकृष्णन संसत्भवने ताभ्यां शपथं दत्तव
नीतीश कुमार ने ली शपथ


नीतीश कुमार ने ली शपथ


नवदिल्ली, 10 अप्रैलमासः (हि.स.)।

बिहारराज्यस्य मुख्यमन्त्री नीतीश कुमार तथा राज्यसभायाः निवर्तमान उपसभापतिः हरिवंश शुक्रवासरे राज्यसभासदस्यरूपेण शपथं गृहीतवन्तौ।

उपराष्ट्रपतिः तथा राज्यसभायाः सभापतिः सी पी राधाकृष्णन संसत्भवने ताभ्यां शपथं दत्तवान्।

अस्मिन् अवसरे सदननेता तथा स्वास्थ्यपरिवारकल्याणमन्त्री जगत प्रकाश नड्डा, वित्तमन्त्री निर्मला सीतारामन, मत्स्यपालनपशुपालनडेयरीमन्त्री राजीव रंजन सिंह, काँग्रेसपक्षस्य राज्यसभासदस्यः जयराम रमेश, बिहारराज्यस्य उपमुख्यमन्त्री सम्राट चौधरी इत्यादयः अन्ये च उपस्थिताः आसन्।

एकोनसप्ततिवर्षीयः हरिवंशस्य पूर्वकार्यकालः एप्रिलमासस्य नवमे दिने समाप्तः। ततः अनन्तरं राष्ट्रपतिः द्रौपदी मुर्मु अद्य तं मनोनीतवती। उच्चतमन्यायालयस्य पूर्वमुख्यन्यायाधीशस्य रंजन गोगोई राज्यसभासदस्यरूपेण कार्यकालः समाप्तः अभवत्, यस्य कारणात् एका आसन्दी रिक्ता अभवत्।

राज्यसभायाम् आहत्य द्वादश सदस्याः राष्ट्रपतिना मनोनीताः भवन्ति। एते सदस्याः कला साहित्य विज्ञान समाजसेवा इत्यादिषु उल्लेखनीययोगदानस्य आधारेण चयनं प्राप्नुवन्ति।

--------------

हिन्दुस्थान समाचार