नीतीश-कुमारः हरिवंशः च राज्यसभासदस्यत्वेन शपथं गृहीतवन्तौ, प्रधानमन्त्री नरेन्द्र-मोदी तयोः अभिनन्दनं कृतवान्
नवदिल्ली, १० अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी बिहार-राज्यस्य मुख्यमन्त्रिणं नीतीश-कुमारं राज्यसभायाः निवर्तमान-उपसभापतिं हरिवंशं च राज्यसभासदस्यत्वेन शपथग्रहणस्य अवसरे अभिनन्दनं शुभकामनाः च प्रदत्तवान्। प्रधानमन्त्री नरेन्द्र-मोदी श
 प्रधानमंत्री नरेन्द्र मोदी और बिहार के मुख्यमंत्री नीतीश कुमार (फाइल फाेटाे)


प्रधानमंत्री मोदी और हरिवंश  (फाइल फाेटाे)


नवदिल्ली, १० अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी बिहार-राज्यस्य मुख्यमन्त्रिणं नीतीश-कुमारं राज्यसभायाः निवर्तमान-उपसभापतिं हरिवंशं च राज्यसभासदस्यत्वेन शपथग्रहणस्य अवसरे अभिनन्दनं शुभकामनाः च प्रदत्तवान्।

प्रधानमन्त्री नरेन्द्र-मोदी शुक्रवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यस्मिन् स्वसन्देशे नीतीश-कुमाराय हरिवंशाय च शुभकामनाः प्रदाय लिखितवान् यत् नीतीश-कुमारः देशस्य अतीव अनुभवी-नेतृषु अन्यतमः अस्ति। सुशासनस्य विषये तस्य प्रतिबद्धतायाः सर्वत्र प्रशंसा अभवत्। तेन बिहार-राज्यस्य विकासे योगदानं दत्तम्। तम् पुनः संसदे द्रष्टुं अत्यन्तं सुखदं भविष्यति। सांसदत्वेन केन्द्रीय-मन्त्रित्वेन च सः बहुवर्षाणि स्वसेवाः दत्तवान्।

प्रधानमन्त्री नीतीश-कुमारस्य विषये विश्वासं व्यक्तवान् यत् तस्य दीर्घ-राजनैतिक-अनुभवेन संसदस्य गरिमा अपि वर्धिष्यते। अन्ते सः राज्यसभासदस्यत्वेन शपथग्रहणस्य अवसरे तं अभिनन्द्य अग्रिम-कार्यकालस्य कृते शुभकामनाः अयच्छत्।

प्रधानमन्त्री मोदी हरिवंशस्य पत्रकारिता-सार्वजनिक-जीवनयोः अमूल्य-योगदानस्य प्रशंसां कृत्वा उक्तवान् यत् सः सम्मानितः बुद्धिजीवी विचारकः च अस्ति। स्वगहन-विचारैः अन्तर्दृष्ट्या च सः गत-कतिपय-वर्षेषु सदनस्य कार्यवाहीं समृद्धवान्। राष्ट्रपतिना सः राज्यसभायै मनोनीतः अस्ति। अग्रिमस्य संसदीय-कार्यकालस्य कृते तस्मै शुभकामनाः दत्ताः।

उल्लेखनीयम् यत् बिहार-राज्यस्य मुख्यमन्त्री नीतीश-कुमारः राज्यसभायाः निवर्तमान-उपसभापतिः हरिवंशः च अद्य राज्यसभासदस्यत्वेन शपथं गृहीतवन्तौ।

उपराष्ट्रपतिः तथा राज्यसभायाः सभापतिः सी.पी.राधाकृष्णन् संसद-भवने ताभ्यां शपथं ग्राहयामास। एकोनसप्ततिवर्षीयस्य हरिवंशस्य पूर्व-कार्यकालः ०९ अप्रैलमासे समाप्ते सति राष्ट्रपतिः द्रौपदी-मुर्मु शुक्रवासरे तम् पुनः मनोनीतवती। उच्चतम-न्यायालयस्य पूर्व-प्रधान-न्यायाधीशस्य रंजन-गोगोई-इत्यस्य राज्यसभासदस्यत्व-कार्यकालः समाप्ते सति एषा आसन्दिका रिक्ता जाता। राज्यसभायां आहत्य द्वादश-सदस्याः राष्ट्रपतिना मनोनीताः भवन्ति। एते सदस्याः कला-साहित्य-विज्ञान-समाजसेवा-क्षेत्रेषु उल्लेखनीय-योगदानस्य आधारेण चयनं प्राप्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता