प्रधानमन्त्री नरेंद्रमोदी धैर्यस्य विवेकपूर्ण-चिन्तनस्य च सन्देशं दत्तवान्
नवदिल्ली, १० अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेंद्रमोदी शुक्रवासरे कठिन-परिस्थितिषु शान्त-चित्तेन विवेकपूर्ण-निर्णयस्य महत्त्वं प्रतिपादयन् एकं संस्कृत-सुभाषितं सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् लिखितवान्। प्रधानमन्त्री उक्तवान् यत् देशस्य युव
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, १० अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेंद्रमोदी शुक्रवासरे कठिन-परिस्थितिषु शान्त-चित्तेन विवेकपूर्ण-निर्णयस्य महत्त्वं प्रतिपादयन् एकं संस्कृत-सुभाषितं सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् लिखितवान्।

प्रधानमन्त्री उक्तवान् यत् देशस्य युवान: यत् संकल्पयन्ति तत् साधयित्वा दर्शयन्ति। सः अवदत् यत् युवाशक्तेः सामर्थ्यमेव राष्ट्रं तीव्र-विकास-पथे अग्रे नयति।

प्रधानमन्त्रिणा यत् सुभाषितं प्रकाशितं तत् इदम्—

व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवनान्तके।विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति॥

अस्य सुभाषितस्य अर्थः अस्ति यत् विपत्तौ, आर्थिक-सङ्कटे, भये वा जीवनस्य अन्तिम-क्षणेषु अपि यः जनः धैर्यं धारयन् स्वबुद्ध्या विचारं करोति, सः कदापि विचलितः न भवति। शान्त-चिन्तनपूर्वकः निर्णयः मानवं दुःखात् हानितः च रक्षति।

प्रधानमन्त्रिणा उक्तं यत् एषः सन्देशः मानसिक-दृढतां राष्ट्र-निर्माणे यूनां भूमिकां च प्रकटयति।

हिन्दुस्थान समाचार / अंशु गुप्ता