Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 10 अप्रैलमासः (हि.स)।
पश्चिम एशिया क्षेत्रे वर्तमानसंकटकाले कतर देशः भारतस्य प्रति विश्वसनीय ऊर्जा-आपूर्तिकर्ता रूपेण स्थितिं धारयितुं स्वप्रतिज्ञां पुनः उद्घोषितवान्। कतरस्य ऊर्जा मन्त्री साद् शेरिदा अल-काबी दोहा नगरे केन्द्रीय पेट्रोलियम तथा प्राकृतिक गैस मन्त्री हरदीप सिंह पुरी महोदयेन सह वार्तालापस्य समये एतदाश्वासनं दत्तवान्। अस्मिन् सन्दर्भे उभयपक्षौ वर्तमानतनावस्य मध्ये अपि वैश्विकबाजारेषु स्थिरतां रक्षितुं आह्वानं कृतवन्तौ।
हरदीप सिंह पुरी९-१० अप्रैलदिनाङ्कयोः कतरदेशस्य द्विदिवसीय यात्रायां स्थितवान्। अस्यां यात्रायां सः क्षेत्रे संघर्षारम्भात् अनन्तरं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य एकात्मतासन्देशं कतरदेशस्य नेतृत्वाय प्रेषितवान्। पुरी महोदयः कतरदेशस्य अमीर शेख तमीम बिन हमद अल थानी तथा तत्रस्थ प्रधानमन्त्रिणे अपि प्रधानमन्त्री मोदी महोदयस्य शुभाशंसाः समर्थनसन्देशं च समर्पितवान्।
उभौ मन्त्रिणौ भारत-कतरयोः मध्ये रणनीतिकसम्बन्धस्य सर्वेषां पक्षाणां विषये चर्चां कृतवन्तौ, यत्र उच्चस्तरीयसम्पर्काः, व्यापारः, निवेशः, ऊर्जा, संस्कृति तथा जनसम्बन्धाः समाविष्टाः आसन्।
तौ क्षेत्रे शीघ्रं शान्तेः स्थैर्यस्य च पुनरागमनं तथा भारत-कतरयोः मध्ये द्विपक्षीयसम्बन्धानां अधिकं सुदृढीकरणं प्रति आशां व्यक्तवन्तौ। अपि च उभयपक्षौ अष्टम एप्रिलदिनाङ्के घोषितस्य द्विसप्ताहपर्यन्तस्य युद्धविरामस्य स्वागतं कृतवन्तौ तथा वैश्विकऊर्जा-आपूर्तौ उत्पन्नानां व्यवधानानां शीघ्रं निराकरणस्य आवश्यकता अपि प्रतिपादितवन्तौ। आपूर्तिशृंखलां रक्षितुं निर्बाधनौवहनस्य महत्त्वं अपि ताभ्यां उल्लिखितम्।
केन्द्रीय पेट्रोलियम तथा प्राकृतिक गैस मन्त्री हरदीप सिंह पुरी महोदयस्य कतरयात्रा तस्मिन् समये अभवत्, यदा भारतः वैश्विकतनावानां मध्ये स्वऊर्जासुरक्षां सुनिश्चितुं प्रयतते। कतरदेशः भारतस्य प्रति द्रवीकृतप्राकृतिकवायोः (एलएनजी) तथा द्रवीकृतपेट्रोलियमवायोः (एलपीजी) प्रमुखतमः आपूर्तिकर्ता अस्ति, यस्य अंशः क्रमशः ४५ प्रतिशतं तथा २० प्रतिशतं भवति।
---------------
हिन्दुस्थान समाचार