Enter your Email Address to subscribe to our newsletters

- विश्वनाथ सुरेशो जापानस्य दाइची-एककाय 5-0 तः पराजित्य स्वर्ण पदकमजयत्
नवदिल्ली, 10 अप्रैलमासः (हि.स.)।
एशियाई मुक्केबाजी चॅम्पियनशिप् मध्ये भारतीयमुष्टियोधाः उत्कृष्टं प्रदर्शनं कृत्वा कुलं षोडश पदकानि स्वीकृतवन्तः। पुरुषाणां पञ्चाशत्किलोग्रामवर्गे विश्वनाथ सुरेश इति मुष्टियोधा जापानदेशीयं दाइची इवाई इति प्रतियोगिनं ५–० इति परिणामेन पराजित्य स्वर्णपदकं जितवान्। अस्मिन् संस्करणे सः एकः एव भारतीयः पुरुषमुष्टियोधा आसीत् यः स्वर्णपदकं जितवान्।
भारतदेशः पदकताले पञ्चस्वर्णपदकैः सह द्वितीयं स्थानं प्राप्तवान्, यदा कजाखस्तान एकेन अधिकेन स्वर्णपदकेन प्रथमस्थानं प्राप्तवान्। तथापि कुलपदकसंख्यायां भारतः सर्वेषां मध्ये अग्रे आसीत्।
पुरुषाणां षष्टिकिलोग्रामवर्गस्य अन्तिमस्पर्धायां सचिन सिवाच इति मुष्टियोधः ओराज़बेक असिलकुलोव इति वर्तमानविश्वचॅम्पियनं प्रति २–३ इति परिणामेन पराजितः सन् रजतपदकेन संतुष्टः अभवत्। अपरतः हर्ष चौधरी (९० किग्रा), आकाश (७५ किग्रा), लोकेश (८५ किग्रा) तथा नरेंद्र (+९० किग्रा) कांस्यपदकानि प्राप्तवन्तः।
महिलावर्गे भारतस्य सर्वाः दश मुष्टियोधाः पदकानि जितवन्त्यः इति अत्युत्तमं प्रदर्शनं दृष्टम्। मीनाक्षी हुड्डा (४८ किग्रा), प्रीति पवार (५४ किग्रा), प्रिया घंघास (६० किग्रा) तथा अरुंधति चौधरी (७० किग्रा) स्वर्णपदकानि जितवन्त्यः। जैस्मीन लांबोरिया (५७ किग्रा) तथा अल्फिया पठान (+८० किग्रा) रजतपदकानि प्राप्तवन्त्यः, यदा निकहत जरीन (५१ किग्रा), अंकुशिता बोरो (६५ किग्रा), लवलीना बोरगोहेन (७५ किग्रा) तथा पूजा रानी (८० किग्रा) कांस्यपदकानि अर्जितवन्त्यः।
अजय सिंह इति भारतीयमुष्टियुद्धमहासंघस्य अध्यक्षः दलस्य प्रदर्शनस्य प्रशंसां कृत्वा उक्तवान् यत् एषः अभियानः भारतीयमुष्टियुद्धस्य कृते अत्युत्तमः आसीत्। विशेषतः महिला मुष्टियोधाः चत्वारि स्वर्णपदकानि जित्वा शीर्षस्थानं प्राप्तवन्त्यः। तेन युवप्रतिभानां प्रशंसा अपि कृता, तथा एतत् प्रदर्शनं भविष्यस्य कृते अत्यन्तं सकारात्मकः संकेतः इति अपि उक्तः।
-------------
हिन्दुस्थान समाचार