Enter your Email Address to subscribe to our newsletters

लखनऊ , 10 अप्रैलमासः (हि.स.)। उत्तरप्रदेशे गहनपुनरीक्षणाभियानस्य (एसआईआर) दीर्घप्रक्रियायाः अनन्तरं शुक्रवासरे मुख्यनिर्वाचनाधिकारी नवदीप रिणवा इत्यनेन प्रदेशस्य अन्तिममतदातासूची प्रकाशिताऽस्ति। अस्यां सूच्यां उत्तरप्रदेशे १३ कोटि ३९ लक्ष ८४ सहस्र ७९२ मतदातारः सन्ति। अस्मिन् ८४ लक्ष २८ सहस्र ७६७ मतदातॄणां वृद्धिः अभवत्। तेषु पुरुषमतदातारः ७ कोटि ३० लक्ष ७१ सहस्र ६१ सन्ति, स्त्रीमतदातारः ६ कोटि ९ लक्ष ९५२५ सन्ति।
एसआईआर प्रक्रियायां विविधकारणैः ८ लक्ष १५ सहस्र ९९६ मतदातॄणां नामानि अपाकृतानि। तेषु ३ लक्ष ५० सहस्र ४३६ मतदातारः अपि सन्ति येभ्यः सूचना दत्त्वापि सम्यक् उत्तरं न प्राप्तम्।
मुख्यनिर्वाचनाधिकारी नवदीप रिणवा इत्यनेन अद्य लोकभवनस्थिते मीडिया केन्द्रे आयोजितायां पत्रकारपरिषदायां उक्तं यत् प्रदेशे १६६ दिवसपर्यन्तं विशेषगहनपुनरीक्षणप्रक्रिया आसीत्, तस्याः अनन्तरं अन्तिममतदातासूची प्रकाशिताऽस्ति। प्रकाशितसूच्यानुसारं प्रदेशे १३ कोटि ३९ लक्ष ८४ सहस्र ७९२ मतदातारः सन्ति, यत्र ८४ लक्ष २८ सहस्र ७६७ मतदातॄणां वृद्धिः अभवत्। तेषु पुरुषाः ७ कोटि ३० लक्ष ७१ सहस्र ६१, स्त्रियः ६ कोटि ९ लक्ष ९५२५ च सन्ति। तृतीयलिङ्गस्य मतदातॄणां संख्या ४ सहस्र २०६ अस्ति।
१८-१९ आयुवर्गस्य मतदातॄणां संख्या १७ लक्ष ६३ सहस्र ३६० अस्ति। तेषु ५४.५४ प्रतिशतं पुरुषाः, ४५.४६ प्रतिशतं स्त्रियः सन्ति। येषां नामानि सूच्यां न समाविष्टानि, ते अद्यापि प्रपत्रं ६ पूरयित्वा स्वनाम समावेशयितुं शक्नुवन्ति।
लखनऊ सहित पञ्चजिलेषु अधिकतमवृद्धिः अभवत्मुख्यनिर्वाचनाधिकारी उक्तवान् यत् नवप्रकाशितायां सूच्यां पञ्चजिलेषु अधिकतमं मतदातृवृद्धिः दृष्टा। तेषु प्रयागराजः प्रथमस्थाने अस्ति, यत्र ३ लक्ष २९ सहस्र ४२१ मतदातारः वर्धिताः। लखनऊ मध्ये २ लक्ष ८५ सहस्र ९६१, बरेली मध्ये २ लक्ष ५७ सहस्र ९२०, गाजियाबाद मध्ये २ लक्ष ४३ सहस्र ६६६, जौनपुर मध्ये २ लक्ष ३७ सहस्र ५९० मतदातारः वर्धिताः।
विधानसभाक्षेत्रेषु अपि साहिबाबादे ८२ सहस्र, जौनपुरे ५६ सहस्र १५८, लखनऊ पश्चिमे ५४ सहस्र ८२२, फिरोजाबादे ४७ सहस्र ५५७ मतदातॄणां वृद्धिः अभवत्।
सः अवदत् यत् ६ जनवरी दिने १२.५५ कोटि मतदातॄणां मसौदासूची प्रकाशिताऽभवत्। ततः ६ मार्च पर्यन्तं दावाः आपत्तयश्च आमन्त्रिताः। अस्मिन् ८६.६९ लक्ष जनाः नामसमावेशाय प्रपत्रं ६ अपूरयन्। ३.१८ लक्ष जनाः नामनिरसनाय प्रपत्रं ७ अपूरयन्।
१.०४ कोटि जनानां नामानि पितृमातृनामभिः सह न मिलन्ति इति कारणेन सूचना प्रदत्ता आसीत्। २.२२ कोटि जनाः तार्किकविसंगतियुक्ताः आसन्।अन्ते मुख्यनिर्वाचनाधिकारी उक्तवान् यत् एसआईआर प्रक्रियायां भारतीय जनता पार्टी, समाजवादी पार्टी, कांग्रेस, बहुजन समाज पार्टी इत्यादीनां दलानां प्रतिनिधिभिः सह राज्यस्तरे तथा जिलास्तरे सभाः आयोजिताः। तेषां निवेदनानि शीघ्रं निराकृतानि। एते दलाः स्वकार्यकर्तॄन् बूथस्तरीयप्रतिनिधिरूपेण नियुक्तवन्तः, येन एसआईआर सम्बन्धितेषु कार्येषु सक्रियसहभागिता सुनिश्चिता।---------------
हिन्दुस्थान समाचार