काशी हिंदूविश्वविद्यालयस्य त्वरित एवं प्रभावी संवादस्य प्रारम्भः - सर्वेभ्यो विद्यार्थिभ्यः आधिकारिक डोमेन इत्येतत् प्रति लप्स्यते ई-मेल आईडी
—डोमेन ई-मेल विद्यार्थिभ्यो विश्वसनीय एवं प्रामाणिक डिजिटल परिचयः प्रदास्यते वाराणसी,10 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य काशी हिन्दू विश्वविद्यालय (बीएचयू) प्रशासनं छात्राणां शीघ्रं प्रभावी च संवादं तथा सुगमं परिसरस्यानुभवं प्रदातुं महत्त्वपूर्ण
फोटो प्रतीक


—डोमेन ई-मेल विद्यार्थिभ्यो विश्वसनीय एवं प्रामाणिक डिजिटल परिचयः प्रदास्यते

वाराणसी,10 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य काशी हिन्दू विश्वविद्यालय (बीएचयू) प्रशासनं छात्राणां शीघ्रं प्रभावी च संवादं तथा सुगमं परिसरस्यानुभवं प्रदातुं महत्त्वपूर्णां पहलां कृतवान् अस्ति। विश्वविद्यालयप्रशासनेन सर्वेषां छात्राणां कृते आधिकारिक-डोमेन-आधारिताः ई-मेल-परिचयपत्राणि (ई-मेल-आईडी) प्रदातुं आरब्धम् अस्ति। एषः निर्णयः संस्थायाः अन्तः विभिन्न-हितधारकाणां मध्ये निर्बाधं प्रभावी च संवादं संस्थागत-सहभागितां च सुदृढीकरणाय कृतः अस्ति।

विश्वविद्यालयस्य कम्प्यूटर-केन्द्रस्य समन्वयकः प्रो. राजेश कुमारः उक्तवान् यत् काशी हिन्दू विश्वविद्यालयः देशस्य केषाञ्चन चयनित-केन्द्रीय-विश्वविद्यालयानां मध्ये अस्ति, यः सर्वेषां छात्राणां कृते एतां सुविधां प्रददाति। अनेन उपक्रमेण छात्राणां, संकायस्य प्रशासनस्य च मध्ये संवादः अधिकं प्रभावी भविष्यति इति अपेक्षा अस्ति, तथा उत्तरदायित्व-भावनायाः अपि वर्धनं भविष्यति। सह एव, छात्राः व्यक्तिगत-ई-मेल-सेवाभ्यः अपेक्षया उन्नत-सुरक्षा-सुविधाः तथा श्रेष्ठ-स्पैम-रक्षणस्य लाभं प्राप्स्यन्ति।

तेन उक्तं यत् ई-मेल-परिचयपत्राणि छात्राणां समर्थ-पोर्टल-उपलब्ध-तथ्यानां आधारेण निर्मीयन्ते। अस्य व्यवस्थायाः कार्यान्वयनसम्बद्धाः सर्वाः तांत्रिक-प्रक्रियाः कम्प्यूटर-केन्द्रेण पर्यवेक्षिताः भविष्यन्ति। अस्य कृते विश्वविद्यालयेन अतिरिक्त-गूगल-वर्कस्पेस-लाइसेंस तथा क्लाउड-संग्रहणस्य (स्टोरेज) व्यवस्था अपि कृता अस्ति।

प्रो. राजेश कुमारस्य अनुसारम्, अस्य व्यवस्थायाः अन्तर्गतं सर्वेभ्यः छात्रेभ्यः bhu.ac.in डोमेन-आधारिताः ई-मेल-खाताः प्रदास्यन्ते। पूर्वं एते ई-मेल-परिचयपत्राणि केवलं संकाय-सदस्यानां, कर्मचारिणां तथा पीएचडी-शोधार्थिनां कृते अनुरोधाधारेण प्रदीयन्ते स्म। अधुना एषा सुविधा औपचारिकरूपेण सर्वेषां छात्राणां कृते प्रदत्ता अस्ति, येन प्रायः १८,०००–२०,००० छात्राः लाभान्विताः भविष्यन्ति।

एषा पहलाः आधिकारिक-ई-मेल-परिचयपत्राणां माध्यमेन संवादस्य प्रोत्साहनस्य दिशि विश्वविद्यालयस्य प्रयत्नानां भागः अस्ति, येन संवादः अधिकं सुचारुः, प्रामाणिकः सुरक्षितश्च भविष्यति। bhu.ac.in डोमेन-ई-मेल छात्रेभ्यः विश्वसनीयां प्रामाणिकां च डिजिटल-परिचयं दास्यति। तेन सह, स्नातक-परास्नातक-विज्ञान-कला-मानविकी-आदि-श्रेणीभेदेन ई-मेल-समूहाः निर्माय लक्षितः विषयविशिष्टश्च संवादः सम्भविष्यति।

एषा सुविधा काल-भौगोलिक-दूरत्वयोः सीमाभ्यः परं चतुर्विंशतिघण्टानां संस्थागत-संवादं सुनिश्चितं करिष्यति, येन महत्त्वपूर्ण-सूचनानां शीघ्र-प्रसारणं आवश्यक-कार्याणां समयबद्ध-समाधानं च सम्भविष्यति। विश्वविद्यालयस्य महत्त्वपूर्ण-सूचनाः अपि छात्राणां बीएचयू-डोमेन-ई-मेल-परिचयपत्रेषु प्रत्यक्षतया प्रेषिताः भविष्यन्ति।

अतिरिक्ततया, छात्राः कार्यालयेषु भौतिक-उपस्थितिं विना अपि स्वविषयक-समस्यानां समाधानं प्राप्तुं शक्नुवन्ति, यथा विभागाध्यक्ष-कार्यालयात्, संकाय-प्रमुखात् अथवा परीक्षा-नियन्ता-कार्यालयात्।

विश्वविद्यालयस्य कुलपतिः प्रो. अजित कुमार चतुर्वेदी उक्तवान् यत् एषा पहलाः छात्रान् स्वशिक्षकैः, विभागैः तथा विश्वविद्यालयेन सह अधिकं निकटतया संयोजयितुं महत्त्वपूर्णं पादं अस्ति। तेन उक्तं यत् छात्राणां कृते विश्वविद्यालयस्य नीतयः, महत्त्वपूर्ण-निर्णयाः नवीनतम-सूचनाः च विषये जागरूकता आवश्यकाऽस्ति, तथा संकाय-सदस्यानां कृते अपि छात्राणां समस्याः सम्यक् ज्ञातुं अत्यावश्यकम् अस्ति।

हिन्दुस्थान समाचार