जल संसाधन दिवस : जल संरक्षणमेव न्यूनीजायमानस्य जलस्रोतसः समाधानम्
वाराणसी, 10 अप्रैलमासः (हि. स.) l भारते प्रतिवर्षं एप्रिलमासस्य दशम्यां तिथौ जलसंसाधनदिवसः आचर्यते। अस्य उद्देश्यः जलसंरक्षणं, जलस्य अपव्यय-निवारणं, वर्षाजलसञ्चयनस्य च प्रति जनानां जागरूकतां वर्धयितुम् अस्ति। अयं दिवसः प्राकृतिकजलसंसाधनानां सतत-प्र
गंगा के स्वच्छता अभियान में  शामिल गंगा सेवक राजेश शुक्ला


वाराणसी, 10 अप्रैलमासः (हि. स.) l भारते प्रतिवर्षं एप्रिलमासस्य दशम्यां तिथौ जलसंसाधनदिवसः आचर्यते। अस्य उद्देश्यः जलसंरक्षणं, जलस्य अपव्यय-निवारणं, वर्षाजलसञ्चयनस्य च प्रति जनानां जागरूकतां वर्धयितुम् अस्ति। अयं दिवसः प्राकृतिकजलसंसाधनानां सतत-प्रबन्धनस्य तथा भावीपीढीनां कृते जलरक्षणस्य संकल्पस्य अवसरः अस्ति।

सहसंयोजकः गंगाविचारमञ्चः काशीप्रान्तः, गंगासेवकः राजेशशुक्लः वदति यत् जलसंसाधनदिवसः केवलं काचित् तिथि न, अपि तु अस्मान् स्मारयति यत् जलं विना जीवनस्य कल्पना अपि असम्भवा अस्ति। जलसंरक्षणस्य, तस्य सम्यक् प्रबन्धनस्य, तथा प्राकृतिकजलस्रोतसां प्रदूषणात् रक्षणस्य विषये जागरूकतां प्रसारयितुं एषः दिवसः आचर्यते। वयं दैनिकजीवने जलस्य उपयोगं कुर्मः, किन्तु तस्य महत्त्वं बहुधा उपेक्षामः, यत् भविष्ये संकटस्य कारणं भवितुम् अर्हति।

सः उक्तवान् यत् यद्यपि पृथिव्याः प्रायः एकसप्ततिः प्रतिशतभागः जलेन आच्छादितः अस्ति, तथापि तस्मात् केवलं त्रयः प्रतिशताः एव मधुरं जलं अस्ति यत् मनुष्यैः पेयम् अथवा उपयोग्यं भवति।

भारतस्य स्थितिं पश्यामः चेत्, तर्हि स्थितिः अधिका गम्भीरा दृश्यते। भारतस्य भागः विश्वस्य कुलभूभागे केवलं २.४५ प्रतिशतं अस्ति, किन्तु अस्माकं जनसंख्या विश्वस्य प्रायः षोडश प्रतिशतं अस्ति। तथापि अस्माकं समीपे विश्वस्य केवलं चत्वारः प्रतिशताः जलसंसाधनाः सन्ति। तीव्रजनसंख्यावृद्धिः, जलस्रोतसां अतिदोहनम्, असमानवितरणं च भारतदेशे जलोपलब्धिं शनैः शनैः न्यूनयन्ति।

नद्यः, सरांसि, तडागाः, जलाशयाः च अस्माकं मुख्याः जलस्रोतसः सन्ति। वर्षाकालः तथा हिमालयस्य हिमपिघलनम् एतेभ्यः नदीनां जीवनदायकत्वं ददाति।

समग्रदेशस्य नदीनां वार्षिकप्रवाहः प्रायः १८६९ घनकिलोमीटर् अस्ति, किन्तु तस्य केवलं ३७ प्रतिशतं एव प्रभावीरीत्या उपयुज्यते। जलवायुपरिवर्तनम्, तीव्रशहरीकरणम्, औद्योगीकरणस्य च वर्धमानाः चुनौतीः दृष्ट्वा, विशेषतः भारतदेशे, यत्र जलसंकटं गम्भीरं समस्या अस्ति, कुशलजलसंरक्षणविधीनां आवश्यकता अतीव महत्त्वपूर्णा जाता।

वयं जलसंरक्षणस्य महत्त्वे गम्भीरतया चिन्तयित्वा, अस्य अमूल्यसंसाधनस्य रक्षणाय विविधाः उपायाः स्वीकरोमः—

वर्षाजलसञ्चयनम् — भूजलस्तरस्य वृद्धये वर्षाजलं सङ्गृह्य अधःस्थं जलं वर्धयितुं वा अन्येषु उपयोगेषु स्थापयितुं शक्यते।जलस्य पुनः उपयोगः — गृहेषु वा उद्योगेषु उपयुक्तं जलं शुद्धीकृत्य पुनः उपयोगे आनयितुं शक्यते।जलस्य अपव्ययनिवारणम् — नलिकासु, पाइपरेषु च स्रावनिरोधः कर्तव्यः, जलस्य विवेकपूर्णः उपयोगः करणीयः।आधुनिकसिञ्चनपद्धतयः — ड्रिप् तथा स्प्रिंकलर् इत्यादयः उपायाः जलसंरक्षणे सहायकाः भवन्ति।वृक्षारोपणम् — वृक्षाः जलचक्रं सन्तुलयन्ति तथा वर्षां वर्धयन्ति, येन जलसंरक्षणे सहायता भवति।जलस्रोतसां प्रदूषणनिवारणम् — यत् जलं स्वच्छं उपयोग्यं च भवेत्।

एतेषां उपायानां अनुपालनात् वयं जलसंरक्षणं कर्तुं शक्नुमः तथा जलसंकटात् अपि रक्षितुं शक्नुमः।____________________

हिन्दुस्थान समाचार