उपराष्ट्रपतिः सिन्धी-भाषायां संविधानस्य नवीनतमं संस्करणं प्रकाशितवान्
नवदिल्ली, १० अप्रैलमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.-राधाकृष्णन् शुक्रवासरे सिन्धी-भाषा-दिवसस्य अवसरे सिन्धी-भाषायां भारतस्य संविधानस्य नवीनतमं संस्करणं प्रकाशितवान्। एतत् द्वाभ्यां लिपिभ्यां—देवनागरी-फारसी-लिपिभ्यां—प्रकाशितम् अस्ति। राधाकृष्णन्
उपराष्ट्रपति सीपी राधाकृष्णन के साथ अन्य लोग मौजूद।


नवदिल्ली, १० अप्रैलमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.-राधाकृष्णन् शुक्रवासरे सिन्धी-भाषा-दिवसस्य अवसरे सिन्धी-भाषायां भारतस्य संविधानस्य नवीनतमं संस्करणं प्रकाशितवान्। एतत् द्वाभ्यां लिपिभ्यां—देवनागरी-फारसी-लिपिभ्यां—प्रकाशितम् अस्ति।

राधाकृष्णन् उपराष्ट्रपति-भवने आयोजिते कार्यक्रमे उक्तवान् यत् विभाजनानन्तरं कठिन-समये सिन्धी-भाषा दृढतायाः एकतायाश्च प्रतीकरूपेण कार्यं कृतवती। सिन्धी-भाषायां संविधानस्य प्रकाशनं भाषिक-समावेशितायाः प्रोत्साहनस्य दिशि महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् एतादृशेन प्रयत्नेन जनाः स्वमातृभाषायां संविधानम् अवगन्तुं शक्नुवन्ति, येन लोकतान्त्रिक-सहभागिता विश्वासश्च सुदृढौ भविष्यतः।

कार्यक्रमं सम्बोधयन् विधि-न्याय-राज्यमन्त्री (स्वतन्त्र-प्रभारः) अर्जुनराम-मेघवालः उक्तवान् यत् एषः प्रयत्नः अस्माकं भाषिक-विविधतां संवैधानिक-जागरूकतां समावेशी-भारतस्य सङ्कल्पं च अधिकं सशक्तं करोति। एषा संविधानस्य मूल्यानि जनं जनं प्रति प्रसारयितुं दिशि मील-शिलारूपेण भविष्यति।

अस्मिन् अवसरे राजस्थान-विधानसभा-अध्यक्षः वासुदेव-देवनानी लोकसभा-सांसदः शंकर-लालवानी इत्यादयः अन्ये गणमान्य-जनाः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता