Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 अप्रैलमासः (हि.स.)। सीपी राधाकृष्णन तथा नितिन गडकरी सहिताः अनेके नेतारः पूर्वप्रधानमन्त्रिणः मोरारजी देसाई महोदयस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्प्य तस्य योगदानं स्मृतवन्तः।
उपराष्ट्रपतिः राधाकृष्णनः शुक्रवासरे उपराष्ट्रपतिभवने मोरारजी देसाई महोदयाय पुष्पाञ्जलिं समर्प्य तस्मै श्रद्धाञ्जलिं अर्पितवान्।
सड़क-परिवहन-राजमार्गमन्त्री नितिन गडकरी अपि पूर्वप्रधानमन्त्रिणं महान् स्वतन्त्रतासेनानी च मोरारजी देसाई महोदयम् पुण्यतिथौ विनम्राभिवादनं कृतवान्।
उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्कर सिंह धामी एक्स-माध्यमे लिखिते सन्देशे मोरारजी देसाई महोदयं सादगी-जनसेवयोः प्रतीकम् इति उक्त्वा तस्मै पुण्यतिथौ नमनं कृतवान्। सः उक्तवान् यत् राष्ट्रसेवायाः प्रति तेषां समर्पणं सर्वेषां कृते प्रेरणास्रोतः अस्ति।
दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता अपि मोरारजी देसाई महोदयाय श्रद्धाञ्जलिं दत्त्वा उक्तवती यत् तेषां सम्पूर्णं जीवनं सादगी, अनुशासनं, राष्ट्रसेवा च प्रति समर्पितम् आसीत्। तेषां विचाराः तथा देशविकासे योगदानं सदैव प्रेरणां दास्यति।
उल्लेखनीयं यत् भारतस्य चतुर्थः प्रधानमन्त्री मोरारजी देसाई महोदयः स्वस्य अनुशासितजीवनम्, ईमानदारी, निःस्वार्थराष्ट्रसेवा च कारणेन पुण्यतिथौ स्मर्यते। सः भारतस्य एकमात्रः पुरुषः आसीत् यः भारत रत्न तथा पाकिस्तानस्य सर्वोच्चनागरिकसम्मानम् निशान-ए-पाकिस्तान इत्युभाभ्यां सम्मानितः।
-------------
हिन्दुस्थान समाचार