अमित शाहः बंगालाय कृतवान् भाजपादलस्य ‘संकल्प पत्रं’ जारी, महिलाभ्यस्त्रिसहस्रं भत्तानिमित्तं, बसयात्रा निःशुल्का
कोलकाता, 10 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनात् पूर्वं अमित शाह महोदयेन शुक्रवासरे कोलकाता नगरे भारतीय जनता पार्टी इत्यस्याः निर्वाचनघोषणापत्रं “संकल्पपत्रम्” प्रकाशितम्। अस्मिन् अवसरे तेन राज्ये सत्तां प्राप्य अनेकानि महत्त्वपूर्णान
अमित शाह


कोलकाता, 10 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनात् पूर्वं अमित शाह महोदयेन शुक्रवासरे कोलकाता नगरे भारतीय जनता पार्टी इत्यस्याः निर्वाचनघोषणापत्रं “संकल्पपत्रम्” प्रकाशितम्। अस्मिन् अवसरे तेन राज्ये सत्तां प्राप्य अनेकानि महत्त्वपूर्णानि प्रतिज्ञानि कृतानि, तथा विकासः, रोजगारः, महिला-सुरक्षा, स्वास्थ्यसेवाश्च प्राथमिकतया स्थाप्यन्ते इति उक्तम्।

घोषणापत्रे महिलानां तथा बेरोजगारयुवानां कृते विशेषयोजनानां घोषणा कृता अस्ति। भाजपया प्रतिज्ञातम् यत् महिलाभ्यः बेरोजगारयुवेभ्यश्च प्रतिमासं ३००० रूप्यकाणि प्रदास्यन्ति। अपि च प्रतियोगीपरीक्षायाः तयारीं कुर्वतां युवानां कृते १५००० रूप्यकाणां साहाय्यं दास्यते इति घोषितम्।

सरकारीकर्मचारिणां कृते महङ्गाईभत्तस्य प्रदाने तथा योग्याभ्यर्थिभ्यः पारदर्शिप्रक्रियया स्थायिनियुक्तेः दानस्यापि आश्वासनं दत्तम्। कृषकाणां कृते प्रधानमंत्री किसान योजना अन्तर्गतं लभ्यमानं ६००० रूप्यकाणां धनं सह राज्यतः ३००० रूप्यकाणि योजयित्वा कुलं ९००० रूप्यकाणि दास्यन्ति इति प्रतिज्ञातम्।

स्वास्थ्यक्षेत्रे आयुष्मान भारत योजना राज्ययोजनाभिः सह संयोज्य दरिद्रजनानां कृते निःशुल्कचिकित्सा उपलब्धा भविष्यति इति उक्तम्। उत्तरबङ्गप्रदेशे अत्याधुनिककर्कटरोगालयस्य निर्माणस्यापि घोषणा कृता।

महिलासुरक्षायाः विषये सर्वासु नियुक्तिषु ३३ प्रतिशत-आरक्षणं, प्रत्येकमण्डले महिला-थानस्य स्थापना, प्रत्येकपुलिसजिले महिला-डेस्कस्य व्यवस्थापनम् इति प्रतिज्ञातम्। अपि च महिलानां कृते १०० प्रतिशतं निःशुल्कसार्वजनिकपरिवहनसुविधा अपि दास्यते इति उक्तम्।

घोषणापत्रे कोलकातानगरस्य कृते दशवर्षीयविशेषविकासयोजना, उत्तरबङ्गप्रदेशे एम्स-स्थापनम्, क्रीडाविश्वविद्यालयस्य निर्माणम्, चत्वारः नवानगराः उपनगररूपेण विकासः, दार्जिलिङ्गप्रदेशस्य हेरिटेज-पर्यटनकेन्द्ररूपेण विकासश्च उल्लिखितः।

राजनीतिकदृष्ट्या ममता बनर्जी प्रति आलोचनां कुर्वन् अमितशाहः उक्तवान् यत् भाजपासत्ता आगमने “भयमुक्तं भ्रष्टाचारमुक्तं च बङ्गालम्” निर्मास्यते। सः अपि उक्तवान् यत् राज्यस्य मुख्यमन्त्री बङ्गालप्रदेशात् एव चयनं भविष्यति।

अन्ते शाहः उक्तवान् यत् भाजपासरकारे स्थाप्ये किमपि वर्तमानजनकल्याणकारीयोजना न निरस्यते, “मत्स्य-अण्ड” इत्यादयः खाद्ययोजनाः अपि यथावत् प्रवर्तिष्यन्ते।------------------

हिन्दुस्थान समाचार