Enter your Email Address to subscribe to our newsletters

बेंगलुरुनगरम्, १० अप्रैलमासः (हि.स.)। वरिष्ठ-विद्वान-लेखकः एस.आर.रामास्वामी (८८ वर्षीयः) शुक्रवासरे प्रातः बेंगलुरु-नगरस्य शंकरपुरम्-स्थिते तस्य निवासे निधनं प्राप्तवान्। तस्य निधनेन कन्नड-साहित्य-पत्रकारिता-जगतः अपूरणीयः क्षयः अभवत्।
तस्य पार्थिव-शरीरं केंपेगौड़नगर-स्थिते राष्ट्रोत्थान-परिषदः केशवशिल्प-भवने अपराह्णं १२ वादनपर्यन्तं सार्वजनिक-दर्शनार्थं स्थापितम् अस्ति। ततः पश्चात् रुद्रभूमौ तस्य अन्तिम-संस्कारः क्रियते।तस्य निधनात् कर्नाटकस्य पूर्व-मुख्यमन्त्री बी.एस.येदियुरप्पा, विपक्ष-नेता आर.अशोक: तथा भाजपा-प्रदेशाध्यक्षः विजयेंद्र: येदियुरप्पा सहिताः अनेके गणमान्याः व्यक्तयः प्रगाढं शोकं प्रकटितवन्तः।
डॉ.रामास्वामीमहोदयः पञ्च-दशकपर्यन्तं पत्रकारिता-साहित्ययोः क्षेत्रे महत्वपूर्णं योगदानं कृतवान्। सः दीर्घकालं यावत् ‘उत्थान’ मासिक-पत्रिकायाः तथा ‘राष्ट्रोत्थान साहित्य’ प्रकाशनस्य प्रधान-सम्पादकः आसीत्। १९७२ तः १९७९ पर्यन्तं सः ‘सुधा’ साप्ताहिक-पत्रिकायां मुख्य-उपसम्पादकः अपि आसीत्।
सः सुभाषचन्द्रबोसः, जयप्रकाशनारायणः, वल्लभभाईपटेलः, मोक्षगुंडम्-विश्वेश्वरैया इत्यादीनां महापुरुषाणां जीवनचरितानि रचितवान्। तेन प्रायः ५५ ग्रन्थाः लिखिताः। तस्य ‘भारत-मध्ये समाजकार्य’, ‘स्वतंत्रोदयस्य मील-स्तम्भाः’, ‘आर्थिकतायाः द्वौ ध्रुवौ’ इत्यादयः ग्रन्थाः समाज-विज्ञान-आर्थिक-क्षेत्रयोः महत्त्वपूर्णाः मन्यन्ते।
तस्य ‘शताब्दी-परिवर्तनस्य भारते’ इति कृतिः कर्नाटक-साहित्य-अकादमी-पुरस्कारेण सम्मानिता आसीत्। सः धर्मपालस्य ग्रन्थानां कन्नड-भाषायां अनुवादं कृत्वा भारतीय-चिन्तनाय नूतनां दिशां दत्तवान्।
पत्रकारिता-साहित्य-क्षेत्रयोः योगदानार्थं तस्मै आर्यभट्ट-पुरस्कारः, कर्नाटक-राज्य-पुरस्कारः, मानद-डॉक्टरेट-उपाधिः तथा अन्यानि बहूनि सम्मानानि प्राप्तानि। २०१५ तमे वर्षे कन्नड-विश्वविद्यालयः हम्पी तं ‘नाडोज’ इति उपाधिना सम्मानितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता