मुख्यमंत्री धामी 12 मानचित्रकेभ्यो वितरितानि नियुक्ति पत्राणि,पारदर्शीनियुक्तिं कृषि सशक्तिकरणं प्रति बलम्
देहरादूनम्, 10 अप्रैलमासः (हि.स.)। उत्तराखण्डस्य मुख्यमंत्री पुष्कर सिंह धामी शुक्रवासरे स्वस्य सरकारी निवासे कृषि एवं कृषक कल्याण विभागस्य अन्तर्गत मानचित्रकपदे चयनितानां द्वादश अभ्यर्थीनां नियुक्तिपत्राणि प्रदानवान्।अस्मिन् अवसरे मुख्यमंत्री सर
कृषि एवं कृषक कल्याण विभाग के अंतर्गत मानचित्रक पद पर चयनित अभ्यर्थी पुष्कर सिंह धामी एवं गणेश जोशी के साथ।


मुख्यमंत्री पुष्कर सिंह धामी, मुख्यमंत्री आवास में मानचित्रक के पद पर चयनित अभ्यर्थि को नियुक्ति पत्र प्रदान करते हुए।


देहरादूनम्, 10 अप्रैलमासः (हि.स.)।

उत्तराखण्डस्य मुख्यमंत्री पुष्कर सिंह धामी शुक्रवासरे स्वस्य सरकारी निवासे कृषि एवं कृषक कल्याण विभागस्य अन्तर्गत मानचित्रकपदे चयनितानां द्वादश अभ्यर्थीनां नियुक्तिपत्राणि प्रदानवान्।अस्मिन् अवसरे मुख्यमंत्री सर्वान् चयनितान् अभ्यर्थीन् अभिनन्द्य उक्तवान् यत् एतेषां नियुक्तिः राज्यस्य कृषिव्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

सः अपि अवदत् यत् राज्यसरकारेण पारदर्शी निष्पक्ष च भर्तीप्रक्रिया सुनिश्चितुं कठोरः नकलविरोधी कानूनः प्रवर्तितः अस्ति। तस्य प्रभावी क्रियान्वयनानन्तरं प्रदेशे अद्यावधि त्रिंशत्सहस्राधिकाः युवानः सरकारीसेवायां नियुक्ताः सन्ति, यत् सरकारस्य युवानां प्रति प्रतिबद्धतां सुशासनं च दर्शयति।

मुख्यमंत्री उक्तवान् यत् उत्तराखण्डे प्राकृतिककृषेः प्रोत्साहनं क्रियते, तथा मिलेटस्य उत्पादनं विपणनं च संवर्ध्यते। कृषकाणां आयवृद्धये आधुनिकप्रविधीनां उपयोगः, सिंचाईसुविधानां विस्तारः, फसलविविधीकरणं च विशेषतः बलं प्राप्नोति। सहैव सेब, कीवी, बागवानी तथा औषधीयवनस्पतीनां कृषिः अपि प्रोत्साह्यते।

सः उक्तवान् यत् सरकारस्य लक्ष्यं कृषिं लाभदायिनीं युवानां कृते आकर्षकां च कर्तुं अस्ति, यथा अधिकाधिकाः जनाः अस्मिन् क्षेत्रे संलग्नाः भवन्ति।

अस्मिन् अवसरे गणेश जोशी, सचिव कृषि एस.एन. पाण्डेय, अपर सचिव आनन्द श्रीवास्तव तथा कृषि विभागस्य अन्ये अधिकारी उपस्थिताः आसन्।

हिन्दुस्थान समाचार