अपहृतस्य पुत्रस्य सकुशल-प्राप्त्यर्थं पित्रा मुख्यमन्त्रिणः योगी-आदित्यनाथस्य प्रति कृतज्ञता व्यक्ता
बस्ती, १० अप्रैलमासः (हि.स.)। जनपद-बस्त्यां अपहृतस्य युवकस्य सकुशल-प्रप्तेः अनन्तरं पीडित-परिवारेण मुख्यमन्त्रिणः योगी-आदित्यनाथस्य, आरक्षक-महानिदेशकस्य तथा बस्ती-आरक्षकान् प्रति आभारः व्यक्तः। पीडितस्य अनय-उपाध्यायस्य पिता मनोज-कुमार-उपाध्यायः उक्
अपहृतस्य पुत्रस्य सकुशल-प्राप्त्यर्थं पित्रा मुख्यमन्त्रिणः योगी-आदित्यनाथस्य प्रति कृतज्ञता व्यक्ता


बस्ती, १० अप्रैलमासः (हि.स.)। जनपद-बस्त्यां अपहृतस्य युवकस्य सकुशल-प्रप्तेः अनन्तरं पीडित-परिवारेण मुख्यमन्त्रिणः योगी-आदित्यनाथस्य, आरक्षक-महानिदेशकस्य तथा बस्ती-आरक्षकान् प्रति आभारः व्यक्तः। पीडितस्य अनय-उपाध्यायस्य पिता मनोज-कुमार-उपाध्यायः उक्तवान् यत् तस्य पुत्रस्य केचन अज्ञात-जनाः अपहरणं कृतवन्तः। अस्य सूचना प्राप्तमात्रेण सः लालगंज-थानायाम् अभियोगं निबद्धवान्। तेन उक्तं यत् आरक्षकैः तत्परतां दर्शयित्वा त्वरित-कार्यवाही कृता तथा तस्य पुत्रः तस्य सहचरः च सकुशलं लब्धवन्तौ। सः अवदत् यत् अस्य कृते सः उत्तर-प्रदेशस्य मुख्यमन्त्रिणं तथा बस्ती-आरक्षकविभागं प्रति हृदयतः आभारं व्यक्तयति, येन समये एव कार्यवाही कृत्वा पुत्रस्य जीवनं रक्षितम्।

अष्टमे अप्रैलमासे अनय-उपाध्यायः स्वमित्रेण सह वाराणसीं गतः आसीत्, यत्र नवमे अप्रैलमासे केचन अज्ञात-जनाः उभौ बन्धकौ कृत्वा तयोः परिजनात् धनानि याचितवन्तः। सूचना प्राप्तमात्रेण लालगंज-थानायाः आरक्षकविभागेन प्रकरणं निबद्धं कृत्वा त्वरित-कार्यवाही आरब्धा।

उच्चाधिकारिणां निर्देशानुसारं आरक्ष्क-दलं वाराणसीं प्राप्य स्थानीय-आरक्षकविभागस्य सहयोगेन मोबाइल-लोकेशन-ट्रेसिङ्ग तथा सीसीटीवी-दृश्य-आधारेण उभौ युवकौ गोइठहां-चतुष्पथ-स्थितात् एकस्मात् रेस्टोरेंट्-तः सकुशलं लब्धवन्तौ। अस्मिन् काले आरक्षकैः त्रयः आरोपिताः बन्धके नीताः तथा अग्रिम-विधिक-कार्यवाही आरब्धा। लब्ध-युवकयोः अनय-उपाध्यायः (१९) तथा तस्य सहचरः दिव्यांशु उर्फ राहुल-उपाध्यायः (१७) सम्मिलितौ स्तः। आरक्षकविभागस्य अस्याः त्वरित-कार्यवाह्याः कारणेन परिजनैः सुख-श्वासः गृहीतः तथा प्रशासनस्य तत्परतायाः प्रशंसा कृता।

हिन्दुस्थान समाचार / अंशु गुप्ता