बेंगलुरोः आयुर्वेद संस्थानाय मिलिता अंताराष्ट्रिय मान्यता
नव दिल्ली, 11 अप्रैलमासः (हि.स.)। आयुषमन्त्रालयस्य अधीनं कार्यरतं केंद्रीय आयुर्वेद अनुसंधान संस्थान (सीएआरआई) नामकं बेंगलुरुस्थितं संस्थानस्य क्लिनिकल्-प्रयोगशाला ISO 15189:2022 इत्यस्य अन्तरराष्ट्रीय-मान्यतां प्राप्तवती अस्ति। एषा उपलब्धिः कें
बेंगलुरु स्थित केंद्रीय आयुर्वेद अनुसंधान संस्थान (सीएआरआई)


नव दिल्ली, 11 अप्रैलमासः (हि.स.)।

आयुषमन्त्रालयस्य अधीनं कार्यरतं केंद्रीय आयुर्वेद अनुसंधान संस्थान (सीएआरआई) नामकं बेंगलुरुस्थितं संस्थानस्य क्लिनिकल्-प्रयोगशाला ISO 15189:2022 इत्यस्य अन्तरराष्ट्रीय-मान्यतां प्राप्तवती अस्ति। एषा उपलब्धिः केंद्रीय आयुर्वेदीय विज्ञान अनुसंधान परिषद अन्तर्गतं प्रथमं संस्थानं कृत्वा प्रतिष्ठितवती।

एषा मान्यता प्रयोगशालायां क्रियमाणानां परीक्षणानां गुणवत्ता, शुद्धता तथा विश्वसनीयतां वैश्विकस्तरे प्रमाणयति। अस्य परिणामस्वरूपं रोगिभ्यः उत्तमाः विश्वासार्हाश्च परीक्षणसेवाः प्राप्यन्ते।

आयुषमन्त्रालयेन प्रकाशिते विज्ञप्तौ उक्तं यत् संस्थानं राष्ट्रीय परीक्षण और अंशशोधन प्रयोगशाला प्रत्यायन बोर्ड इत्यस्मात् पञ्चाशत् (५०) प्रकाराणां परीक्षणानां कृते मान्यतां प्राप्तवान्। अत्र रक्तशर्करा, यकृत्, वृक्क (किडनी), थायरॉइड् तथा अन्येषां महत्वपूर्णानां परीक्षणानां सुविधा अस्ति। एषा प्रयोगशाला प्रतिवर्षं १.५ लक्षाधिकानि परीक्षणानि करोति तथा सहस्रशः रोगिणः सेवां प्राप्नुवन्ति। परीक्षणफलानि एसएमएस्, ई-मेल् तथा व्हाट्सएप् माध्यमेन अपि प्रेष्यन्ते।

अस्याः उपलब्धेः विषये आयुषमन्त्री प्रतापराव जाधव उक्तवान् यत् ISO 15189:2022 इत्यादीनां अन्ताराष्ट्रिय-मानकानुसारं प्राप्ता मान्यता रोगिभ्यः विश्वसनीयानि शुद्धानि च निदानसेवाः सुनिश्चितं करोति। एताः सेवाः प्रभावी-चिकित्सायै उत्तमस्वास्थ्यपरिणामानां च कृते अत्यावश्यकाः सन्ति। अस्य संस्थानस्य उपलब्धिः दर्शयति यत् आयुषमन्त्रालयं कथं गुणवत्तायाः विश्वसनीयतायाश्च मानकेषु आयुष-आधारभूतसंरचनां परिवर्तयति।आयुषमन्त्रालयस्य सचिवः वैद्य राजेश कोटेचा अपि उक्तवान् यत् सीएआरआई बेंगलुरु संस्थानं जैवरसायनशास्त्रे तथा रुधिरविज्ञाने ISO 15189:2022 मान्यतां प्राप्तं प्रथमं सीसीआरएएस संस्थानं जातम्। एषा उपलब्धिः पारम्परिकचिकित्सापद्धतिभिः सह उच्चगुणवत्तायुक्त-निदानसेवानां समन्वये महत्वपूर्णं पदं सूचयति तथा प्रमाणाधारित-अभ्यासं, अनुसंधानं, रोगिकेन्द्रितसेवां च सुदृढं करोति।

सीएआरआई बेंगलुरोः प्रमुखा डॉ. सुलोचनामेलनम् उक्तवती यत् ISO 15189:2022 मान्यतायाः प्राप्तिः अस्माकं संस्थानस्य गौरवपूर्णा उपलब्धिः अस्ति। एषा अस्माकं उच्चगुणवत्तायुक्तानां विश्वसनीयानां रोगिकेन्द्रितानां च नैदानिकसेवानां प्रति प्रतिबद्धतां दर्शयति तथा अस्माकं नैदानिकक्षमतां सुदृढयति, अपि च केंद्रीय आयुर्वेदीय विज्ञान अनुसंधान परिषदः अन्तर्गतं अग्रणीसंस्थानरूपेण अस्माकं भूमिकां दृढयति।

-------------

हिन्दुस्थान समाचार