Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 11 अप्रैलमासः (हि.स.)।
केन्द्रीयसर्वकारेण बाराबङ्कीबहराइच राजमार्गपरियोजनां प्रति भारतनेपालव्यापारे भवितुं शक्यमानस्य प्रभावस्य विस्तृतमूल्याङ्कनं प्रकाशितम्। अस्मिन् राष्ट्रियराजमार्गस्य ९२७ सङ्ख्यकस्य अयं खण्डः सीमापारव्यापारस्य प्रमुखजीवनरेखारूपेण उद्भविष्यति इति अनुमानं कृतम्।
केन्द्रीयसडकपरिवहनराजमार्गमन्त्रालयस्य अनुसारम् अस्य राजमार्गस्य माध्यमेन रूपैडीहा स्थलपत्तनपर्यन्तं संयोजकता शीघ्रा अधिकविश्वसनीया च भविष्यति। अस्मात् नेपालस्य नेपालगञ्जमार्गे मालपरिवहने वृद्धेः सम्भावना व्यक्ता।
परियोजना सम्पन्ना सति बाराबङ्कीतः बहराइचपर्यन्तं यात्राकालः प्रायः १५० निमेषेभ्यः घटित्वा ७५ निमेषाः भविष्यति। औसतगति ४० किमीप्रतिघण्टात् वर्धित्वा ८० किमीप्रतिघण्टा भविष्यति। अनेन विशेषतः शाकभाजीनि दुग्धोत्पादादीनि च शीघ्रनाशिनि उत्पादानि न्यूनहानिं प्राप्स्यन्ति।
केन्द्रेण अनुमानं कृतं यत् अस्य कॉरिडोरस्य माध्यमेन खाद्यान्नानि औषधानि उपभोक्तृवस्तूनि च अधिकसुचारुरूपेण आपूर्तिं प्राप्स्यन्ति। अतीते सीमास्थले जामविलम्बाभ्यां कारणाभ्यां आपूर्तिः प्रभाविताभवत्, येन व्यापारीणां कोटिशः हानिः अभवत्।
रूपैडीहाक्षेत्रे ट्रकयानानां आवागमनं वर्धिष्यते इति सम्भावना अस्ति, येन लॉजिस्टिक्स भाण्डारण परिवहनक्षेत्रेषु नूतनाः अवसराः उत्पत्स्यन्ति।
केन्द्रीयमन्त्रिमण्डलेन मार्चमासस्य अष्टादशे दिने अस्य अनुमोदनं दत्तम्। एषः चतुर्लेनप्रवेशनियन्त्रितराजमार्गरूपेण राष्ट्रियराजमार्गस्य ९२७ अन्तर्गतं विकसितः भविष्यति।
भारतनेपालयोः मध्ये स्थलाधारितव्यापारः दक्षिणएशियायां अत्यन्तं सक्रियः अस्ति। नेपालस्य समग्रव्यापारस्य षष्टिप्रतिशताधिकः भागः भारतेन सह भवति। रूपैडीहा नेपालगञ्ज सीमामार्गः अस्य व्यापारस्य प्रमुखकेन्द्रं अस्ति, यतः खाद्यान्नानि शाकभाजीनि दुग्धोत्पादाः औषधानि अन्यानि आवश्यकवस्तूनि च बहुलतया प्रेष्यन्ते।
---------------
हिन्दुस्थान समाचार