Enter your Email Address to subscribe to our newsletters

आसनसोलम्, ११ अप्रैलमासः (हि.स.)। विधानसभा-सामान्य-निर्वाचनम् २०२६ इत्यस्य सज्जतासु मतदान-प्रक्रियाम् पूर्णतया निष्पक्षां पारदर्शीं विश्वसनीयां च कर्तुं दिशि शुक्रवासरे महत्त्वपूर्णं पादं स्थापितम्। जनपदे इलेक्ट्रॉनिक-वोटिंग-यन्त्रम् (ईवीएम) तथा वीवीपैट-यन्त्राणाम् आवंटनार्थं द्वितीयवारं यादृच्छिकीकरण-प्रक्रिया सफलतया सम्पन्ना। एषा सम्पूर्णा प्रक्रिया भारत-निर्वाचन-आयोगेन विकसितेन ईवीएम-मैनेजमेंट-सिस्टम 2.0 सॉफ्टवेयर-द्वारा कृता, येन कस्यापि प्रकारस्य मानवीय-हस्तक्षेपस्य सम्भावना न्यूनतमा भवेत् तथा निष्पक्षता सुनिश्चिता भवेत्।
जनपदाधिकारी एस.-पोन्नमबलम् इत्यस्य अध्यक्षतायां आयोजितायां अस्याम् महत्त्वपूर्णायां सभायां जनपदस्य सर्वेषां विधानसभा-क्षेत्राणां रिटर्निंग-अधिकारी, निर्वाचन-पदाधिकारी, विभिन्न-राजनीतिक-दलानां अभ्यर्थिनः तथा तेषां अधिकृत-प्रतिनिधयः उपस्थिताः आसन्। सम्पूर्णा प्रक्रिया कठोर-निरीक्षणे निर्वाचन-आयोगस्य निर्देशानुसारं पारदर्शितया सम्पन्ना, येन कस्यापि स्तरस्य सन्देहस्य अवकाशः न भवेत्।
सभायां संगणक-आधारित-प्रणाल्या सर्वेषां मतदान-केन्द्राणां कृते ईवीएम-वीवीपैट-यन्त्राणां यादृच्छिक-चयनं कृतम्। अनन्तरं प्रत्येकं विधानसभा-क्षेत्रस्य कृते केन्द्रानुसारं यन्त्र-सूचीं निर्मीय अभ्यर्थिभ्यः तेषां प्रतिनिधिभ्यश्च प्रदत्ता। सह एव आरक्षितरूपेण स्थापितानां अतिरिक्त-यन्त्राणां विवरणम् अपी विज्ञापितम्, येन मतदान-दिवसे काचित् तकनीकी-समस्या जायमाने तत्क्षणम् विकल्पः उपलब्धः स्यात्।
जनपदस्य नव विधानसभा-स्थानानां आहत्य २५०४ मतदान-केन्द्राणां कृते ईवीएम-वीवीपैट-यन्त्राणाम् आवंटनं कृतम्। प्रत्येकस्मिन् केन्द्रे निर्धारित-मानकानुसारं यन्त्राणि उपलब्धानि स्युः इति सुनिश्चितं कृतम्, येन मतदान-प्रक्रिया सुचारुरूपेण सम्पन्ना भवेत्। प्रशासन-पक्षतः स्पष्टं कृतं यत् अस्मिन् यादृच्छिकीकरणे आवंटितानि यन्त्राणि मतदान-दिवसे प्रत्यक्षतया सम्बन्धित-मतदान-केन्द्रेषु उपयुज्यन्ते। अस्याः प्रक्रियायाः मुख्य-उद्देश्यं निर्वाचनं निष्पक्षं पारदर्शी विश्वसनीयं च कर्तुम्, येन मतदातारः कस्यापि भयं सन्देहं वा विना स्वमताधिकारं प्रयुञ्जीरन्।
सभायां उपस्थितैः विभिन्न-दलानां अभ्यर्थिभिः तेषां प्रतिनिधिभिश्च सम्पूर्णा प्रक्रिया पारदर्शी इति कथयित्वा सन्तोषः व्यक्तः। प्रशासन-पक्षतः अपि आश्वासनं दत्तं यत् अग्रिमाः सर्वाः निर्वाचन-प्रक्रियाः अपि एवं निष्पक्षतया नियम-अनुसारं च सम्पन्नाः करिष्यन्ति। ईवीएम-वीवीपैट-यन्त्राणाम् अस्य द्वितीय-यादृच्छिकीकरणेन प्रशासनस्य निष्पक्ष-निर्वाचन-प्रतिबद्धता स्पष्टा जाता, तथा मतदातॄणां विश्वासः अपि अधिकं सुदृढः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता