Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 अप्रैलमासः (हि.स.)।
ईरानदेशे बद्धाः 312 भारतीयमत्स्यजीविनः आर्मेनिया मार्गेण सुरक्षिततया स्वदेशं प्रत्यागताः।
विदेशमन्त्री डॉ. एस. जयशंकरः सामाजिकमाध्यमे एक्स इत्यस्मिन् उक्तवान् यत् ईरानदेशात् 312 भारतीयमत्स्यजीविनः सुरक्षिततया भारतं नीताः। तेन आर्मेनिया-सरकारस्य तथा तत्रत्यस्य विदेशमन्त्रिणः अरारात मिर्जोयान इत्यस्य विशेषः आभारः व्यक्तः। जयशंकरः उक्तवान् यत् आर्मेनियादेशस्य सहयोगेन एव एषः कठिनः अभियानः सफलः अभवत्।
एतत् सम्पूर्णम् अभियानम् विदेशमन्त्रालयस्य, भारतीयदूतावासस्य, स्थानिकप्रशासनस्य च अनेकानां संस्थानां समन्वयेन सफलतया सम्पन्नम्।
एते मत्स्यजीविनः दीर्घकालपर्यन्तं ईरानदेशे विभिन्नकारणैः बद्धाः आसन्। भारत-सरकारेण तेषां सुरक्षित-प्रत्यागमनाय निरन्तरं प्रयासाः कृताः। आदौ तान् ईरानदेशात् निष्कास्य आर्मेनियादेशं नीतवन्तः, ततः विमानमार्गेण भारतं प्रत्यानीयन्त।
अस्मिन् काले सर्वाः आवश्यकाः दस्तावेजप्रक्रियाः तथा सुरक्षानियमाः सम्यक् पालनं कृतम्। यात्राकाले तेषां भोजनपानस्य, स्वास्थ्यपरीक्षणस्य, अन्यसुविधानां च विशेषः ध्यानः कृतः।
अस्य पूर्वं 5 अप्रैल-दिने पश्चिम-एशियायां प्रवर्तमानस्य सैन्यसंघर्षस्य मध्ये ईरानदेशे बद्धाः 345 भारतीयमत्स्यजीविनः आर्मेनिया मार्गेण सुरक्षिततया चेन्नईनगरं प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार