सीएसए इत्यत्र ‘लिटिल-फन-फिएस्टा’ इत्यस्य अन्तर्गतं रचनात्मकतायाः प्रोत्साहनं दत्तम्
कानपुरम्, १० अप्रैलमासः (हि.स.)। चन्द्रशेखर-आजाद-कृषि-प्रौद्योगिकी-विश्वविद्यालयेन (सीएसए) लघु-बालकान् शैक्षणिक-क्रियाकलापेषु आकर्षयितुं नूतनः प्रयत्नः आरब्धः। अस्य प्रयत्नस्य नाम ‘लिटिल-फन-फिएस्टा’ इति निर्दिष्टम्, यस्यान्तर्गतं वरिष्ठ-छात्राः लघु
'लिटिल फन फिएस्टा' के दौरान छात्र एवं नन्हे बच्चे


कानपुरम्, १० अप्रैलमासः (हि.स.)। चन्द्रशेखर-आजाद-कृषि-प्रौद्योगिकी-विश्वविद्यालयेन (सीएसए) लघु-बालकान् शैक्षणिक-क्रियाकलापेषु आकर्षयितुं नूतनः प्रयत्नः आरब्धः। अस्य प्रयत्नस्य नाम ‘लिटिल-फन-फिएस्टा’ इति निर्दिष्टम्, यस्यान्तर्गतं वरिष्ठ-छात्राः लघु-बालकान् क्रीडया एव रचनात्मकतायाः विकासं प्रोत्साहयन्ति। अस्यां श्रेण्यां शुक्रवासरे स्नातक-षष्ठ-सत्रस्य छात्राः लघु-बालकान् नूतन-नूतन-वस्तूनि शिक्षितवन्तः।

चन्द्रशेखर-आजाद-कृषि-एवं-प्रौद्योगिकी-विश्वविद्यालयस्य कानपुरे मानव-विकास-एवं-पारिवारिक-अध्ययन-विभागे “लिटिल-फन-फिएस्टा” प्रदर्शनीयाः आयोजनं स्नातक-षष्ठ-सत्रस्य छात्राभिः कृतम्। एषा प्रदर्शिनी विशेषतया ०३ तः ०६ वर्षपर्यन्तं वयसां बालकानां कृते आयोजिता आसीत्। अस्याः मुख्यं लक्ष्यं बालकेषु रचनात्मकतायाः प्रोत्साहनं, क्रीडया शैक्षिक-क्रियाकलापानां माध्यमेन नूतन-वस्तूनां शिक्षणं, मनोरञ्जनेन सह तेषां मानसिक-सामाजिक-विकासस्य त्वरणं च आसीत्।

कार्यक्रमस्य शुभारम्भः मानव-विकास-एवं-पारिवारिक-अध्ययन-विभागस्य प्रभारी डॉ.मुक्तागर्गः इत्यनया कृतः। अस्मिन् अवसरे नर्सरी-कक्षायाः बालकाः, तेषां अभिभावकाः तथा परिसर-निवासिनः जनाः उत्साहपूर्वकं स्वोपस्थितिं दत्तवन्तः।

कार्यक्रमस्य अन्तर्गतं विद्यार्थिभिः विविधाः क्रियाकलापाः—यथा क्रीडाः, चित्रकला तथा रचनात्मक-कार्याणि—आयोजितानि, येषु बालकानां सहभागिता उत्साहश्च अत्यन्तं प्रशंसनीया आसीत्। अभिभावकैः अपि कार्यक्रमस्य प्रशंसा कृता तथा एतत् बालकानां कृते अतीव उपयोगी इति उक्तम्। अस्मिन् अवसरे नर्सरी-शिक्षिका रेनू तथा विभागस्य शिक्षिका डॉ.सुमेधा चौधरी एवं डॉ.श्वेतासिंहः इत्येताः अपि स्वमहत्त्वपूर्णाम् उपस्थितिं दत्तवत्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता