महात्मा ज्योतिबा फुले शिक्षायाः प्रसाराय स्वजीवनं समर्पितवान् : केशव प्रसाद मौर्यः
लखनऊ, 11 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः शनिवासरे लखनऊनगरे स्थिते सरकारी-आवासे ७ कालिदासमार्गे महान् समाजसुधारकः शिक्षाविद् च महात्मा ज्योतिबा फुले इत्यस्य जयन्त्यां तस्य स्मृतिचित्रे पुष्पाञ्जलिं समर्प्य तम् न
महात्मा ज्योतिबा फुले के चित्र पर पुष्पांजलि करते केशव प्रसाद मौर्य


लखनऊ, 11 अप्रैलमासः (हि.स.)।

उत्तर प्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः शनिवासरे लखनऊनगरे स्थिते सरकारी-आवासे ७ कालिदासमार्गे महान् समाजसुधारकः शिक्षाविद् च महात्मा ज्योतिबा फुले इत्यस्य जयन्त्यां तस्य स्मृतिचित्रे पुष्पाञ्जलिं समर्प्य तम् नतवान्।

अस्मिन् अवसरे केशवप्रसादमौर्यः उक्तवान् यत् महात्मा ज्योतिबा फुले सामाजिकसमता शिक्षाप्रसारः नारीसशक्तिकरणं च इत्येषां कृते स्वजीवनं समर्पितवान्। तस्य विचाराः कार्याणि च अद्यापि अस्मान् समतामूलकं शिक्षितं जागरूकं च समाजं निर्मातुं प्रेरयन्ति।

हिन्दुस्थान समाचार