Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, १० अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य धार-जनपदे स्थितस्य ऐतिहासिक-भोजशाला-विवाद-प्रकरणे मप्र-उच्चन्यायालयस्य इन्दौर-खण्डपीठे शुक्रवासरे निरन्तरं पञ्चमे दिने सम्पन्ने श्रवणे हिन्दू-पक्षेण न्यायालयस्य समक्षं ऐतिहासिक-साक्ष्येषु, शिल्पकलायां तथा प्राचीन-ग्रन्थेषु आधृत्य विस्तृताः तर्काः प्रस्तुताः।
हिन्दू-पक्षकारैः उक्तं यत् भोजशाला केवलं सामान्या संरचना नास्ति, अपितु सा माता-सरस्वत्यै समर्पितं मन्दिरं संस्कृत-शिक्षण-केन्द्रं च आसीत्, यस्योल्लेखः विविधेषु प्राचीन-ग्रन्थेषु, ब्रिटिश-कालीन-गजेटियर-ग्रन्थेषु तथा राजा-भोज-रचितेषु ग्रन्थेष्वपि प्राप्यते।
वरिष्ठ-अधिवक्ता सलमान-खुर्शीदः स्वव्यस्ततां कारणीकृत्य प्रकरणं २८ अप्रैलपर्यन्तं स्थगयितुं याचनां कृतवान्, किन्तु उच्चन्यायालयेन सा याचना कठोरतया निरस्ता तथा प्रतिदिनं (नियमितरूपेण) श्रवणं निरन्तरं कर्तुं निर्देशः दत्तः।
हिन्दू-पक्षस्य द्वितीय-याचिकायाः श्रवणकाले लखनऊ-निवासिनः याचिकाकर्तुः कुलदीप-तिवारी इत्यस्य पक्षतः उच्चतम-न्यायालयस्य अधिवक्ता मनीष-गुप्तेन न्यायालयं सूचितं यत् राजा-भोज-लिखिते प्रसिद्धे “समराङ्ग-सूत्रधार” इति ग्रन्थे नगर-नियोजनस्य तथा मन्दिर-वास्तुकलायाः विस्तृतं वर्णनं अस्ति। अस्मिन् ग्रन्थे मन्दिराणां संरचना, आयामाः, स्तम्भानां रचना, मूर्तिनां शैली तथा शिल्पकलायाः सिद्धान्ताः वर्णिताः सन्ति।
अधिवक्ता मनीष-गुप्तः तर्कं दत्तवान् यत् भोजशाला-परिसरस्य संरचना, तस्य आयामाः, स्तम्भ-रचना तथा मूर्तिकला-शैली “समराङ्ग-सूत्रधार”-ग्रन्थे वर्णितैः सिद्धान्तैः सह साम्यं वहन्ति, येन स्पष्टं भवति यत् उक्तं स्थलम् मूलतः मन्दिरम् आसीत्। तेन १३०४ ईस्वी-वर्षे लिखितं “चिन्तामणि”, उन्नविंशतितम-शताब्द्याः धार-गजेटियर-ग्रन्थं तथा अन्यान् ऐतिहासिक-तथ्यान् उद्धृत्य उक्तं यत् प्राचीनकाले धार-नगरं ज्ञान-विज्ञानयोः प्रमुखं केन्द्रम् आसीत् तथा भोजशाला विद्या-परम्परायाः मुख्यं स्थलम् आसीत्।
श्रवणकाले एतदपि उक्तं यत् भारतीय-पुरातत्त्व-सर्वेक्षणेन (एएसआई) उत्खनने प्राप्ता ब्रह्मणः एका दुर्लभा प्रतिमा “समराङ्ग-सूत्रधार”-ग्रन्थे वर्णितेन युवा-ब्रह्म-स्वरूपेण सह साम्यं दर्शयति। हिङ्गलाजगढ़, मंदसौर तथा रायसेन-प्रदेशेभ्यः प्राप्तानां मूर्तिनां शिल्प-परम्परा अपि तस्मिन्नेव कालखण्डे सम्बद्धा इति कथितम्। हिन्दू-पक्षेण एतदपि उक्तं यत् परमार-कालीन-राजवंशेन स्वीकृता निर्माण-शैली तथा उज्जयिनी-स्थितस्य महाकालेश्वर-मन्दिरस्य वास्तुकलायामपि समानताः दृश्यन्ते।
हिन्दू-पक्षेण न्यायालये प्रस्तुतैः तर्कैः आधृत्य उक्तं यत् भोजशाला-स्थलम् प्राचीनं सरस्वती-मन्दिरम् आसीत्, यत्र विद्या, कला तथा शास्त्राणां अध्ययनं क्रियते स्म। प्रकरणस्य अनुवर्ती श्रवणं १५ अप्रैलमासे निर्धार्यते। तस्मिन् दिने हिन्दू-पक्षः “समराङ्ग-सूत्रधार”-ग्रन्थस्य आयामानां तथा भोजशाला-संरचनायाः साम्यं अधिक-विस्तरेण न्यायालयस्य समक्षं प्रस्तोष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता