Enter your Email Address to subscribe to our newsletters

श्योपुर-जनपदः, ११ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्ये श्योपुर-जनपदे स्थिते कूनो राष्ट्रीय उद्यान पुनरपि चित्रकाणां कुलम् अभिवृद्धिं प्राप्तम्। अत्र भारतीय-मूलस्य मादा-चित्रका गामिनी चत्वारः शावकान् अजनयत्। अनेन सह भारते चित्रकाणां समग्र-संख्या सप्तपञ्चाशत् (५७) इति जाता।
मुख्यमन्त्री मोहनयादव: शनिवासरे सामाजिक-माध्यमेषु एतां सूचनां प्रकाशितवान्। सः मादाचित्रकाया: गामिनी-नाम्नः शावकैः सह चित्रम् अपि प्रसारितवान्। तेन उक्तं यत् मध्यप्रदेशः अधुना चीतानां ‘पुनरुद्धार’-कार्यक्रमस्य प्रमुख-केंद्ररूपेण उदेति। कूनो-वनस्य मुक्त-परिसरे गामिनी-चित्रकाया: कृते जातानां चतुर्णां शावकानां जन्म एतत् सूचयति यत् अयं प्रदेशः चित्रकाणां वंश-विस्ताराय पूर्णतया अनुकूलः अस्ति। सः अस्याः सिद्धेः कृते कूनो-प्रबन्धकान् तथा वन्यजीव-चिकित्सकान् अभिनन्दितवान्।केन्द्रीय-वन-पर्यावरण-मन्त्री भूपेंद्रयादव अपि सामाजिक-माध्यमेन अस्याः सफलतायाः विषये हर्षं व्यक्तवान् तथा वन-विभागस्य दलं, परियोजनया सम्बद्धान् सर्वान् कर्मकरान् च अभिनन्दितवान्। तेन उक्तं यत् २०२२ वर्षे आरब्धस्य चीता-पुनर्स्थापन-कार्यक्रमस्य अनन्तरम् एषा प्रथमवारं घटना अस्ति, यदा कश्चित् चित्रका प्राकृतिक-वने शावकान् अजनयत्। एषा सिद्धिः विशेषतया महत्त्वपूर्णा, यतः एषा भारतीय-मूलस्य मादा-चित्रकाया: प्रथमः सफल-प्रसवः मन्यते।
वन-विभागस्य अधिकारिणः अवदन् यत् मादा-चीता गामिनी गतवर्षाधिककालात् मुक्त-वने वसन्ती आसीत् तथा प्राकृतिक-परिस्थितिषु पूर्णतया अनुकूलिता अभवत्। वने शावकानां जन्म एतत् द्योतयति यत् कूनो-पर्यावरणं चीतानां कृते अनुकूलं जातम् तथा ते अत्र सुरक्षिततया प्रजननं कर्तुं समर्थाः सन्ति।
मुख्य-वन-संरक्षकः उत्तमकुमार: शर्मा उक्तवान् यत् मादा-चीता गामिनी चत्वारः शावकान् अजनयत्, एषा सफलता परियोजनायाः मुख्य-उद्देश्यस्य दिशि महत्त्वपूर्णं पदम् अस्ति। अस्या: परियोजनायाः लक्ष्यं चीतान् प्राकृतिक-परिसरे स्थापयितुं तथा तेषां प्रजननं सुनिश्चेतुं च अस्ति। सः अपि उक्तवान् यत् गामिनी स्वयम् अपि पूर्वं शावका आसीत्, या अधुना स्वस्थतया प्रजननं करोति—एतत् दीर्घकालिक-सफलतायाः संकेतः अस्ति।
कूनो-अधिकारिणः अवदन् यत् मादा-चीता गामिनी तथा तस्याः सर्वे नवजात-शावकाः पूर्णतया स्वस्थाः सन्ति तथा तेषां निरन्तरं निरीक्षणं क्रियते। एतेषां चतुर्णां नवानां शावकानां आगमनेन अधुना भारते चीतानां समग्र-संख्या सप्तपञ्चाशत् (५७) अभवत्। तेषु चतुर्पञ्चाशत् (५४) चीताः कूनो-राष्ट्रीय-उद्यान एव सन्ति, अपराः त्रयः गांधी सागर अभयारण्य-इत्यस्य मुक्त-वन-क्षेत्रे स्थापिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता