मध्यप्रदेशस्य रायसेने त्रिदिवसीय राष्ट्रिय ‘उन्नत कृषि महोत्सवः’ शुभारब्धो, रक्षा मंत्री अकरोत् उद्घाटनम्
भोपालम्, 11 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य रायसेन-जिलामुख्यालये स्थिते रायसेनस्य दशहरा-मैदाने त्रिदिवसीयः “राष्ट्रीय-उन्नत-कृषि-महोत्सवः” तथा प्रशिक्षण-कार्यक्रमः आरब्धः अस्ति। रक्षामन्त्री राजनाथसिंहः शनिवासरे मध्यान्हे अस्य उद्घाटनम् अकरोत्।
रायसेन में तीन दिवसीय राष्ट्रीय ‘उन्नत कृषि महोत्सव’ को संबोधित करते हुए रक्षा मंत्री राजनाथ सिंह


रायसेन में तीन दिवसीय राष्ट्रीय ‘उन्नत कृषि महोत्सव’ को संबोधित करते हुए शिवराज सिंह


भोपालम्, 11 अप्रैलमासः (हि.स.)।

मध्यप्रदेशस्य रायसेन-जिलामुख्यालये स्थिते रायसेनस्य दशहरा-मैदाने त्रिदिवसीयः “राष्ट्रीय-उन्नत-कृषि-महोत्सवः” तथा प्रशिक्षण-कार्यक्रमः आरब्धः अस्ति। रक्षामन्त्री राजनाथसिंहः शनिवासरे मध्यान्हे अस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरि केन्द्रीय-कृषिमन्त्री शिवराजसिंहचौहानः तथा मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अपि उपस्थितौ आसताम्।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् अस्मिन् उन्नत-कृषि-महोत्सवे भवतां मध्ये उपस्थितिः मम अत्यन्तं हर्षदायिनी अस्ति। रायसेन-भूमौ आयोजितः अयं मेला कृषकभ्रातृभगिनीनां कृते न केवलं लाभकारी भविष्यति, अपितु तेषां जीवनपरिवर्तने अपि महत्वपूर्णां भूमिकां निर्वहिष्यति इति मम पूर्णः विश्वासः अस्ति।

सः उक्तवान् यत् कृषकः सम्पूर्णस्य देशस्य अर्थव्यवस्थां वहति। अर्थव्यवस्था त्रिषु भागेषु विभक्ता अस्ति—प्रथमः कृषि-पशुपालनम्, द्वितीयः उद्योगः, तृतीयः सेवाक्षेत्रम् यत्र बैंक, कारखाना, दुकान, अन्तर्जालं, विद्यालयाः इत्यादयः सन्ति। कृषकस्य परिश्रमः सम्पूर्णव्यवस्थायाः आरम्भबिन्दुः अस्ति। कृषकः आधारस्तम्भः इव अस्ति यस्मिन् सम्पूर्णा शृंखला शीघ्रं प्रवर्तते। सर्वेषां क्षेत्राणां मूलानि कृषकस्य भूमौ एव निहितानि सन्ति—एषा एव सत्यता अस्ति।

युवकाः कृषिक्षेत्रे संलग्नाः भवेयुः। कृषिः “स्मार्ट्” रीतीया कर्तुं शक्यते, तस्मै अद्य बहवः तन्त्रज्ञानोपायाः उपलब्धाः सन्ति। कृषिक्षेत्रे अत्यधिकाः सम्भावनाः सन्ति। आगामिषु कालेषु कृषिः गौरवस्य विषयः भवेत्—एवमेव अस्माकं सरकारस्य संकल्पः अस्ति।

सः अपि उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी सदा उक्तवान् यत् कृषकाः अस्माकं देशस्य मेरुदण्डः सन्ति। एतत् केवलं वचनं न, अपितु गतवर्षेषु तस्य प्रमाणानि दृश्यन्ते। अस्माकं सरकारेण कृषकानां कृते बहूनि कार्याणि कृतानि। प्रति वर्षं केन्द्रसरकारः कृषकानां खातेषु षट्सहस्र-रूप्यकाणि निवेशयति। एषा व्यवस्था अस्माकं सरकारेण निर्मिता यत् दिल्लीतः निर्गतः धनः प्रत्यक्षं कृषकस्य खातं प्राप्नोति। पूर्वसरकारेषु एतादृशं न आसीत्।

सरकारेण दत्तं धनं न किञ्चन उपहारः, अपितु भवतां परिश्रमस्य फलम् अस्ति—एतत् खाद-बीज-क्रयाय उपयुज्यते। पूर्वं यदि फसलः नष्टा अभवत्, तर्हि कृषकस्य किञ्चन विकल्पः न आसीत्। अधुना तु फसल-बीमा अस्ति। सरकारेण “कार्ड” अपि दत्तं येन कृषकः स्वभूमेः स्थिति ज्ञातुं शक्नोति।

कृषकानां कृते प्रत्येकगृहं प्रति विद्युत्, जलं, मार्गाः च व्यवस्थिताः कृताः। पूर्वं कतिपयेषु स्थलेषु कच्चमार्गाः आसन्, यत्र ट्रकः न आगच्छति स्म। अधुना तादृशं नास्ति। क्षेत्रेषु विद्युत्प्राप्त्या कृषकः सरलतया सिंचनं कर्तुं शक्नोति। मण्डी-व्यवस्थायाम् अपि अधुना ऑनलाइन-पद्धतिः अस्ति—कृषकः गृहस्थः सन् अपि स्वफसलस्य विक्रयस्थानं ज्ञातुं शक्नोति।

यद्यपि एतावत् परिवर्तनं जातम्, तथापि पर्याप्तं नास्ति। अत्र अद्यापि बहु कार्यं अपेक्षितम्। अस्मिन् विषये धनस्य अभावः बाधकः न भविष्यति। भवतां कल्याणाय सरकारः प्रतिबद्धा अस्ति।

पूर्वं केन्द्रीय-कृषिमन्त्री शिवराजसिंहचौहानः अपि अवदत् यत् रायसेन-कृषिमेले देशस्य विभिन्नभागेभ्यः कृषि-वैज्ञानिकाः, विशेषज्ञाः, प्रगतिशील-कृषकाः, मन्त्रिणः च समागताः सन्ति। अत्र एकीकृत-कृषिपद्धतेः व्यावहारिक-प्रदर्शनानि अपि दर्श्यन्ते—येषु बागवानी, एकीकृत-कृषि, आधुनिक-तन्त्रज्ञानस्य उपयोगः, ड्रोन-प्रयोगः, लघु-क्षेत्रेषु अधिक-लाभ-प्राप्तेः उपायाः च मुख्यतया प्रदर्श्यन्ते।

अस्मिन् राष्ट्रीय-कृषिमेले केवलं भाषणानि न भविष्यन्ति, अपितु वैज्ञानिकाः प्रथमं प्रस्तुतीः करिष्यन्ति, ततः अनन्तरं कृषकाः प्रश्नान् पृच्छितुं शक्नुवन्ति। अयं मेला अत्यन्तं अद्भुतः अस्ति। अत्र कृषकानां कृते विद्यालयवत् शिक्षा प्रदास्यते।

सः अपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीस्य मार्गदर्शने प्रत्येक-राज्यस्य कृते कृषि-सम्बद्धः मार्गमानचित्रः (रोडमैप) निर्मीयते, यतः स्थानीय-परिस्थितीनुसारं कृषेः विकासः साध्यः भवेत्। अस्यैव क्रमस्य अन्तर्गतं वैज्ञानिकैः विदिशा, रायसेन, सीहोर, देवास—एतेषां चतुर्णां जिलानां कृते विशेषः कृषि-मार्गमानचित्रः निर्मितः अस्ति।

---------------

हिन्दुस्थान समाचार