नासा-इत्यस्य आर्टेमिस-२-अभियानं सम्पन्नम्, दशदिनानन्तरं चन्द्र-समीपं गत्वा प्रत्यागता: चत्वारः अन्तरिक्ष-यात्रिणः
वॉशिंगटनम्, ११ अप्रैलमासः (हि.स.)। अमेरिकीय-अन्तरिक्ष-अनुसन्धान-संस्था नासा-इत्यस्य आर्टेमिस-२-अभियानं सफलतया सम्पन्नम्। अस्मिन् अभियाने सम्मिलिताः चत्वारः अन्तरिक्ष-यात्रिणः दश-दिनात्मक-चन्द्र-यात्रायाः अनन्तरं सुरक्षितरूपेण पृथिवीं प्रत्यागता:। अ
नासा का आर्टेमिस-2 मिशन सफलतापूर्वक पूरा


वॉशिंगटनम्, ११ अप्रैलमासः (हि.स.)। अमेरिकीय-अन्तरिक्ष-अनुसन्धान-संस्था नासा-इत्यस्य आर्टेमिस-२-अभियानं सफलतया सम्पन्नम्। अस्मिन् अभियाने सम्मिलिताः चत्वारः अन्तरिक्ष-यात्रिणः दश-दिनात्मक-चन्द्र-यात्रायाः अनन्तरं सुरक्षितरूपेण पृथिवीं प्रत्यागता:। अस्मिन् अभियाने ते पृथिव्याः अतीव दूरं अभिलेखीय-दूरीम् अपि अतिक्रान्तवन्तः।नासा-इत्यनेन ‘एक्स’ इत्यत्र प्रदत्तायां सूचनायां उक्तं यत् चन्द्र-अभियानस्य आर्टेमिस-२ इत्यस्य चत्वारः अन्तरिक्ष-यात्रिणः— कमाण्डर रीड-वाईजमैन, पायलट विक्टर-ग्लोवरः, क्रिस्टीना-कोच तथा कनाडा-देशस्य जेरेमी-हैनसेन — सुरक्षितरूपेण पृथिवीं प्रत्यागता:। तेषाम् ओरियन-अन्तरिक्ष-यानं प्रशान्त-महासागरे अवतीर्णम्। कैलिफोर्निया-राज्यस्य सैन-डिएगो-तटस्य समीपे एषा अवतरण-प्रक्रिया स्थानीय-समयानुसारं रात्रौ ८:०७ वादने (भारतीय-समयानुसारं ११ अप्रैलस्य प्रातः ५:३७ वादने) सम्पन्ना। एतदभियानं १ अप्रैलमासे फ्लोरिडा-प्रदेशात् प्रक्षिप्तः आसीत्। अमेरिकीय-राष्ट्रपतिः डोनाल्ड-ट्रम्पः अस्य सफलतायाः अभिनन्दनं कृतवान्।

नासा-इत्यनेन अवतरणस्य चलच्चित्रं सहभागं कृत्वा ‘एक्स’ इत्यत्र लिखितम्— “रीड, विक्टर, क्रिस्टीना तथा जेरेमी, भवतः स्वागतम्! आर्टेमिस-२-अन्तरिक्ष-यात्रिणः ११ अप्रैलमासे रात्रौ ८:०७ वादने अवतीर्णाः, येन तेषां ऐतिहासिकं दश-दिनात्मकम् अभियानं समाप्तम्।”

१९७२ तमे वर्षात् अनन्तरं एषः प्रथमः अवसरः यदा एतादृशात् चन्द्र-अभियानात् प्रत्यागमनं जातम्। अन्तरिक्ष-संस्थाया: अनुसारं अस्मिन् अभियाने सहभागिनः ६९०,००० मीलाधिकं दूरं गतवन्तः। दश-दिनात्मकस्य अस्य अभियानस्य सफलतया अनन्तरं नासा-इत्ययं आर्टेमिस-३-अभियानस्य सज्जतायां प्रवृत्ता अस्ति। वर्तमान-अभियाने अन्तरिक्ष-यात्रिणः केवलं चन्द्र-समीपात् गतवन्तः, परं अग्रिमाभियाने ते चन्द्रतले अवतरणं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता