'नारी शक्ति वंदन अधिनियमः' अथ अन्याः योजनाः ज्योतिबा फुले के विचाराणाम् अनुरूपम् : नितिननवीनः
नवदिल्ली, 11 अप्रैलमासः (हि.स.)। भारतीयजनतादलस्य राष्ट्रियाध्यक्षः नितिननवीनः महात्मानं ज्योतिरावफुले इत्यस्य द्विशततम् जन्मजयन्त्यां तस्मै श्रद्धांजलिम् अर्पितवान्। सः अवदत् यत् शिक्षायाः नारीसशक्तीकरणस्य सामाजिकसमतायाः च तस्य विचाराः अद्यापि अत
भाजपा अध्यक्ष नितिन नवीन


नवदिल्ली, 11 अप्रैलमासः (हि.स.)।

भारतीयजनतादलस्य राष्ट्रियाध्यक्षः नितिननवीनः महात्मानं ज्योतिरावफुले इत्यस्य द्विशततम् जन्मजयन्त्यां तस्मै श्रद्धांजलिम् अर्पितवान्। सः अवदत् यत् शिक्षायाः नारीसशक्तीकरणस्य सामाजिकसमतायाः च तस्य विचाराः अद्यापि अत्यन्तं प्रासंगिकाः सन्ति। सः फुलेमहाशयस्य समाजसुधारकार्याणि प्रेरणादायकानि इति उक्त्वा अवदत् यत् नारीशक्तिवन्दनअधिनियमः तथा अन्याः योजनाः तस्य आदर्शविचारानुसारं सन्ति।

शनिवासरे भाजपा राष्ट्रियाध्यक्षः नवीनः माध्यमेषु प्रकाशिते वक्तव्ये अवदत् यत् ज्योतिरावफुले इत्यस्य योगदानं देशः अद्यापि स्मरति।

सः अवदत् यत् ज्योतिरावफुलेन प्रथमं बालिकाविद्यालयस्य स्थापना कृता तथा सतीप्रथानिवृत्त्यादीनि अनेकानि ऐतिहासिककार्याणि कृतानि ये अद्यापि प्रासंगिकानि सन्ति।

सः अपि अवदत् यत् नरेन्द्रमोदीसरकारः नारीसशक्तीकरणाय निरन्तरं कार्यं करोति। सः बेटीबचाओ बेटीपढ़ाओ अभियानात् आरभ्य महिलानां आत्मनिर्भरता तथा शिक्षाक्षेत्रे उन्नयनाय कृतानां प्रयासानां उल्लेखं कृतवान्।

राष्ट्रियाध्यक्षः नवीनः नारीशक्तिवन्दनअधिनियमस्य अपि उल्लेखं कृत्वा अवदत् यत् अस्मिन् महिलाभ्यः त्रयस्त्रिंशत्प्रतिशतपर्यन्तं आरक्षणं दत्तम् अस्ति यत् ज्योतिरावफुले इत्यस्य आदर्शानुसारम् अस्ति।

सः अवदत् यत् सरकारस्य उद्देश्यं महिलाभ्यः समाजे समभागीदारीं तथा सम्मानं दातुम् अस्ति।

---------------

हिन्दुस्थान समाचार