Enter your Email Address to subscribe to our newsletters

नारनौल-नगरम्, ११ अप्रैलमासः (हि.स.)। हरियाणा-राज्य-सर्वकारेण प्रदेशस्य सर्वकारी-चिकित्सालयेषु स्वास्थ्य-सेवानां उन्नयनार्थं व्यापक-स्तरे सुधारात्मक-उपक्रमाः आरब्धाः। अस्यैव श्रेण्याम् जनपदस्य उपायुक्तः कैप्टन-मनोज-कुमारः नवीन-दिशा-निर्देशान् निस्सार्य अधिकारिणां उत्तरदायित्वानि निश्चितवान्।शनिवासरे उपायुक्तेन उक्तं यत् एषः निर्णयः स्वास्थ्य-व्यवस्थायाः सुदृढीकरणस्य दिशि महत्वपूर्णः उपक्रमः अस्ति। नवीन-निर्देशानुसारं अधुना सर्वेषां सर््कारी-चिकित्सालयानां २४-होरा: यावत् स्वच्छता तथा पूर्ण-क्रियाशीलता अनिवार्या भविष्यति।
जनपद-प्रशासनेन एते निर्देशाः कठोरतया अनुपालिताः भविष्यन्ति, येन रुग्णानां कस्यापि प्रकारस्य असुविधा न भवेत्। तेन उक्तं यत् जनपदस्य सर्वे नागरिक-चिकित्सालया:, सामुदायिक-स्वास्थ्य-केन्द्राणि तथा अन्यानि चिकित्सालयानि सप्ताहस्य सर्वेषु दिनेषु चतुर्विंशतिहोरा: यावत् उद्घाटितानि भविष्यन्ति। रुग्णाणां सम्मर्द-नियन्त्रणार्थं पञ्जीकरण-कक्षेषु व्यवस्थाः सुदृढीक्रियन्ते, आवश्यकतायां च अतिरिक्त-कक्षाः अपि उद्घाटिताः भविष्यन्ति।
जच्चा-बच्चा-वार्डेषु विशेषतया सुधारः क्रियते। एते वार्ड स्थानीय-कलाकाराणां साहाय्येन मन्द-वर्णैः सुन्दर-चित्रैः च अलङ्कृताः करिष्यन्ते, येन रुग्णानां कृते सकारात्मक-वातावरणं सुलभं भवेत्। ग्रीष्म-ऋतुम् अधिकृत्य शीतल-स्वच्छ-पेयजलस्य, कूलर-यन्त्राणां तथा मशक-निवारणस्य पर्याप्त-व्यवस्था अपि सुनिश्चिता भविष्यति।
उपायुक्तेन उक्तं यत् सः स्वयम् तथा जनपदस्य सर्वे एसडीएम-अधिकारिणः अग्रिम-पञ्च-दिनेषु चिकित्सालयानां निरीक्षणं करिष्यन्ति। तत्र स्वच्छता, औषध-उपलब्धता तथा कर्मचारिणां उपस्थितेः परीक्षणं भविष्यति। यः कश्चित् कर्मचारी पोषाक-विहीनः दृश्यते अथवा दायित्वे प्रमादं करोति, तस्य विरुद्धं कठोर-कार्यवाही भविष्यति। सहैव अस्पताल-परिसरात् जीर्ण-वाहनानि अपशिष्ट-पदार्थाश्च अपसारयितुं निर्देशाः अपि दत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता