Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ अप्रैलमासः (हि.स.)। रक्षा-मन्त्री राजनाथ-सिंहः अद्य शनिवासरे मध्यप्रदेश-राज्यस्य प्रवासे भविष्यति। सः रायसेन-जनपद-मुख्यालये स्थिते दशहरा-प्राङ्गणे ११ अप्रैलतः १३ अप्रैलपर्यन्तं आयोजितस्य त्रिदिवसीय-राष्ट्रीय-स्तरीयस्य ‘उन्नत-कृषि-महोत्सव’-प्रदर्शिनी-सह-प्रशिक्षण-कार्यक्रमस्य शुभारम्भं करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री डॉ.मोहन-यादवः अपि उपस्थितः भविष्यति।
जनसम्पर्क-अधिकारिणी अनुभा-सिंहः अवदत् यत् अस्मिन् महोत्सवे अनेके मन्त्रिणः, केन्द्रीय-मन्त्रालयस्य सचिवाः अन्ये च अधिकारिणः, भारतीय-कृषि-अनुसन्धान-परिषदः डीजी तथा देशस्य शीर्ष-कृषि-वैज्ञानिकाः भागं ग्रहीष्यन्ति। उन्नत-कृषि-महोत्सवस्य कालावधौ आहत्य २० विषयाधारित-सत्राणि आयोजितानि भविष्यन्ति, येषां कृते चत्वारि पृथक्-सभा-गृहाणि निर्मितानि सन्ति। एतेषु सत्रेषु प्रमुखतया विविधाः कृषिविषयाः समाविष्टाः भविष्यन्ति।
निर्धारित-कार्यक्रमानुसारं रक्षा-मन्त्री राजनाथ-सिंहः अद्य प्रातः ११ वादने भोपालतः प्रस्थानं कृत्वा प्रातः ११.२५ वादने रायसेन-स्थितं दशहरा-प्राङ्गणं प्राप्स्यति तथा प्रातः ११.३० वादनात् अपराह्ण ०१.४० वादनपर्यन्तं महोत्सवस्य शुभारम्भ-कार्यक्रमे सम्मिलितः भविष्यति। ततः अनन्तरं सः अपराह्णे ०१.४५ वादने रायसेनतः भोपालं प्रति प्रस्थानं करिष्यति।जनसम्पर्क-अधिकारिणी अवदत् यत् अस्मिन् उन्नत-कृषि-महोत्सवे अन्तरक्रियात्मक-प्रशिक्षणानि भविष्यन्ति, येषां उद्देश्यम् अस्ति यत् कृषकाः सूक्ष्मतां ज्ञात्वा स्वकृषौ तानि अनुप्रयुञ्जीरन्। कृषकान् केवलं श्रोतुं न, अपितु दर्शयित्वा शिक्षयितुं बहुषु विषयेषु प्रत्यक्ष-प्रदर्शनानि आयोजितानि सन्ति। कृषि-यान्त्रिकीकरणस्य अन्तर्गतं रीपर, पावर-वीडर, स्प्रेयर, सीडर, बेलर, रोटावेटर तथा कृषि-ड्रोन इत्यादिनां प्रदर्शनं भविष्यति। माइक्रो-सिंचन-प्रणाली तथा प्रिसिजन-कृषेः अन्तर्गतं फर्टिगेशन, स्वचालन-प्रणाली, सौर-पम्प-व्यवस्था तथा एकीकृत-सिंचन-प्रणाली दर्शिता भविष्यति।
उद्यानिकी-क्षेत्रे पॉली-हाउस, ग्रीन-हाउस, चल-शीत-भण्डार, नर्सरी, मधुमक्खी-पालनम् तथा ग्राफ्टिङ्-प्रविधेः व्यावहारिक-प्रदर्शनं भविष्यति। पशुपालन-मत्स्यपालनयोः कृतेऽपि जीवंत-नमूनाः निर्मिताः सन्ति, येन कृषकाः पश्येयुः यत् एकस्मिन् हेक्टेयर-क्षेत्रे एकीकृत-कृषेः कतिविधानि अवसराः सन्ति। प्राकृतिक-कृषेः बीज-आवरणम्, घनजीव-आवरणम् इत्यादयः प्रक्रियाः अपि प्रत्यक्षतया प्रदर्श्य व्याख्यास्यन्ते।
महोत्सवस्य कालावधौ सस्य-परवर्ती-प्रबन्धनम् (पोस्ट-हार्वेस्ट-प्रबन्धनम्), कृषि-क्षेत्रे कृत्रिम-बुद्धिमत्ता-समाधानानि तथा आधुनिक-प्रविधिनां उपयोगः, कृषि-यान्त्रिकीकरणेन आय-वृद्धिः, दलहन-उत्पादकता-वृद्धिः, उद्यानिकी तथा उच्च-मूल्य-सस्य-अवसराः, एकीकृत-कृषि-प्रणाली—खाद्यान्न-फलानि-शाकानि-पशुपालनम्-मधुमक्षिका-पालनम्-मत्स्य-पालनम् तथा कृषि-वानिकी—इत्यादयः विषयाः चर्चिताः भविष्यन्ति। प्रत्येकस्मिन् सत्रे चत्वारः विशेषज्ञाः—कृषि-वैज्ञानिकाः, कृषि-विशेषज्ञाः, उन्नत-कृषकाः तथा अधिकारिणः—प्रस्तुतिकरणं दास्यन्ति, ततः अनन्तरं कृषकाणां प्रश्नानां उत्तराणि दास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता